Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्रापि त्यक्तभुक्त्यादिरनैपीमाक्तनं दिनम्." । इत्युक्ते साध्वसोन्मुक्तावादीन्मलयसुन्दरी-॥ ८२० ॥ "भद्रेऽल्प एव रोगोऽयं, किमकालागमेन मे ? । सह चारायणेन त्वं गत्वाश्वासय ताम्, इतः ॥ ८२१ ॥ ब्रूहि चैनां यथा “ऽऽयातो मेघवाहनभूभुजः । भारतक्षेत्रनाथस्य नन्दनो हरिवाहनः ॥ ८२२ ॥ स्थितो मदनुरोधेन सोऽवैवाद्यतनं दिन, । तमुत्सृज्य ममागन्तुमयुक्तम्" इति नागता." ॥ ८२३ ॥ गतायां च ततस्तस्यां स्वानुभूतनिवेदनः । स्थित्वा शयनशाला स्वां ययौ मलयसुन्दरी. ॥ ८२४॥ अहं त्वगच्छमत्यच्छं तत्रैवायतविस्तृतम् । चन्द्रकान्तशिलातल्पं कल्पवृक्षांशुकाटतम्. ॥ ८२५ ॥ चक्रे च पुनरायाता पदसंवाहनं मम । शनैश्चतुरिका तत्र सुखस्पर्शकराम्बुजा. ॥ ८२६ ॥ " अरे चेतस्त्वया नीतो यत्कृतेऽहं दशामिमाम् । प्रवर्तथास्तथा न स्यामुपहासपदं यथा." ॥ ८२७ ॥ अथ रात्रावतीतायां कोऽपि दिव्यपुमानिमम् । सुश्लोकमपठदुरादायात इव मागधः-।। ८२८ ॥ "प्रभातपायासौ रजनिररुणज्योतिररुणं रुणद्धीदं रोदो दिशि दिशि तमस्ताम्यतितमाम् ।। प्रभाच्छिद्रश्चन्द्रो दलति दलमंत्री जलरुहाम् । रहोऽनुत्साहस्य श्लथय नृप निद्रासुखरसम्." ॥ ८२९ ।। सविस्मयश्च तच्छ्रुत्वा समुत्थायोदिते रवौ । सरस्यदृष्टपाराख्ये स्नात्वोपात्तकुशेशयः ॥ ८३० ॥ देवतायतने तत्र युगादिपुरुषोत्तमम् । कृतपूजः सदाभिर्वाग्भिरस्ताविषं चिरम् ॥ ८३१ ॥ अथेन्द्रनीलवेद्यङ्कमाश्रितायास्तदङ्गणे । गत्वा मलयसुन्दर्या न्यविशं नातिसन्निधौ. ॥ ८३२ ॥ ततश्चतुरिकागम्य माम् नीचर्त्यवेदयत्। “एष्यत्यत्र कुमाराद्य देवी तिलकमञ्जरी. ॥ ८३३ ॥
-
For Private and Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84