Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलकमञ्जरी ॥२८॥
www.kobatirth.org
आगमिनि विधौ पत्यों रजन्या तिमिरच्छलात् । कस्तूरिकारसैलिनं त्रिलोकीमन्दिरोदरम् ॥ ८०५ ॥ अथादिमे निशायामे कृतसायन्तनक्रियः । मठाग्रभुवमारोहमुद्यते रजनीपतौ ॥ ८०६ ॥ प्रदीप पर प्रहरे - रत्नमण्डपिकाजिरे । सन्निविष्टामुपागच्छं ततो मलयसुन्दरीम् ॥ ८०७ ॥ areरिकागत्य त्वरया तामभाषत । " आस्ते चारायणां द्वारि कञ्चुकी भर्तृहारिके ! ।। ८०८ ।। वृते च "बाढमस्वस्थ तनुस्तिलक्रमञ्जरी । मामानेतुमिहाप्रेपी तूर्ण मलयमुन्दरीम्." ।। ८०९ ।। अपृच्छत्तामथास्वास्थ्यहेतुं मलयसुन्दरी । सोवाच “अहमतीतेऽहि रन्तुं वनमयासिपम् ॥ ८१० || सैकते पादचारेण विहृता सापि कौतुकात् । इतश्चेतश्च विक्रीडते तस्याः सर्वः सखीजनः ॥ ८११ ॥ सा तु पुष्पचयव्यग्रा पर्यटन्ती वनावनौ । विशैलालतावेश्म च्छन्नं वनतमद्रुमैः ॥ ८१२ ॥ अथाञ्जनाचलतुङ्गो नभस्तोऽवनताननः । सरस्यदृष्टपाराख्ये पपातातार्कितः करी ॥ ८१३ ॥ तत्याजातिवित्रासो भर्तृपुत्र्याः सखीजनः । पलाय्याचलकुञ्जादों कोऽपि कापि न्यलीयत. ॥ ८१४ ॥ क्षणाद्विभीषिकच्छेदे देवी तिलकमञ्जरी । नतवक्त्रा सलज्जेव लतागेहाद्विनिर्ययौ ॥ ८१५ ॥ स्थित्वा समुल्लसत्स्वेदजलाई वसना क्षणम् । मन्दं मन्दं तदेवासौ लतावेश्म पुनर्गता ॥ ८१६ ॥ क्षणं स्थित्वा तद्वारि समुद्विशा वनभ्रमिम् । विधायोदञ्चितग्रीवं प्रवृत्ता वीक्षितुं दिशः ॥ ८१७ ॥ तां दृष्ट्राऽचिन्तयं - " किं स्यात्सखीमार्गणतत्परा ? । विप्रलब्धाथ केनाप्युदाराकृतिधारिणा ? " ॥ ८१८ ॥ इत्थमाशङ्कमानायां मय्यागत्य सखीजनैः । अनिच्छत्यपि सा नीता विहिताभ्यर्थनैर्गृहम् ॥ ८१९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
कथा सार.
||२८|

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84