Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrm.org Acharya Shri Kailassagarsuri Gyanmandie LIKALACK विचित्रवीर्यसंलापो यथा वप्राधिरोहणम्, । यथाऽलोकः कुमारस्य, निक्षेपश्च यथा सजा, ॥ ७०२॥ तिलकाधानतन्कालं यथा केनापि हेतुना । तस्योत्प्लुत्याम्बुधौ पातो, यथा तत्पृष्टतो मम ।। ७०३ ॥ इत्यादिकं विलापान्तविनिर्यज्जर्जरस्वराम् । शनैर्वदन्ती मवृत्तमश्रौपं बन्धुसुन्दरीम्. ॥ ७०४ ॥ “कोऽयमाप्ततमो यस्य वदत्येषा कथा मम ? । कस्य चायं तनुस्पर्शः मुधासारमनोहरः ?" || ७०५॥ इति ध्यात्वा यनानन्दा मन्दोन्मीलितलोचना । तमेव सहसाद्राक्षं पूर्वदृष्टं नृपात्मजम् , ॥ ७०६ ॥ मारज्वरोचितं वेपं दधानं सर्वतस्तनौ । वीजयन्तं निजीन्सङ्गे कृतां मां कन्दलैर्दलैः ॥ ७०७॥ व्यतर्कयं च सम्भ्रान्ता " पाशग्रन्थिव्यथातुरात् । ममैव हृदयादेष नूनं प्रादुरभूदहिः." ॥ ७०८ ॥ रसान्तरमनाख्येयं सिद्धसारस्वतैरपि । वेदयन्ती किमप्यापं पुनर्विलतामहम् ॥ ७०९॥ पृष्टा च वन्धुसुन्दर्या देहस्वास्थ्यं पुनः पुनः । कुमारस्याङ्गपर्यादुत्यायारादुपाविशम्. ॥ ७१०॥ सदित्वा (?) साप्यवोचन्मां “सखि ! तेजोऽनुभावता । ज्ञातराजान्वयोत्पादं पश्याएं जीवितप्रदम् ॥ ७११ ॥ खिन्नोऽपि हि ममाक्रन्दं श्रुत्वोत्प्लुत्यास्त्रधारया । छित्वा पाशमधः पाते त्वां प्रत्यैच्छदयं भुवि. ॥ ७१२॥ तदेष उपकारित्वात् प्रणामादिकमर्हति" । इत्युक्त्वा कन्धरापाणि मां प्रणाममकारयत्. ॥ ७१३ ॥ कृतप्रतिपणामोऽसौ वभाषे बन्धुसुन्दरीं । "आशैशवे त्वमेवास्या गतवत्युपकारिताम् ॥ ७१४॥ इदं चायुक्तमेतस्यां महानर्थकरे. मयि, । यदुक्तमुपकारीति वाचा लज्जानिबन्धनम्."॥ ७१५॥ साउयवादीत-"महानर्थहेतुरस्याः कथं भवान् ?" सोबोचत-"शक्यते वक्तुं न रहस्यमिदं मया." ॥१६॥ MSRANASACH For Private and Personal Use Only

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84