Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 27
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir किन्त्वेक एव दोषोत्र,-"यदेकमपि निर्मितम् । न रूपं पुरुषस्येति' तत्सम्प्रत्यपि तस्कुरु." ॥ ३४७॥ स प्रत्युवाच-"सामान्यकन्यारूपं मया नहि । कुमार ! लिखितं, किन्तु देषिण्याः सततं नरे. ॥ ३४८॥ नृरूपनिर्मितो द्रष्टुं नैपुण्यं चेत्कुतूहलम् , । कुमारस्यैव सद्रूपमतो लेख्यं तदेव हि ॥ ३४९ ॥ कारणं विद्यते किश्चित्किञ्चेदानीमलेखने । तदर्णयामि संक्षेपादाकर्णयतु पुण्यभाक्-॥ ३५०॥ " अस्ति भूभृति वैताढये चूडालङ्करणं भुवः । रथनुपूरशद्धाद्य चक्रवालाभिधं पुरम् ॥ २५१॥ समग्रदक्षिणश्रेणेः पाता प्रौढपराक्रमः । विद्याधराधिपस्तत्र चक्रसेनाढयो नृपः ॥ ३५२ ॥ विषयान सेवमानस्य तस्य देव्यामथाजनि । पत्रलेखाभिधानायां पुत्री 'तिलकमञ्जरी. ॥ ३५३ ॥ न्यस्तश्चित्रपटेऽमुष्मिन् दृष्टिपातप्रसादतः । लावण्यनिधिना यस्या रूपांशः सफलीकृतः ॥ ३५४ ॥ प्रपेदे यौवनं साथ कामकेलिनिकेतनम्, । योग्येव सर्वभूतीनां पित्रा सा भाजनं कृता. ॥ ३५५ ॥ अनुज्ञाता च सद्वेषैः समं विद्याधरीगणैः । व्योमलीलाविहारेण शैलेषु मलयाद्रिषु. ॥ ३५६ ॥ युक्त्या प्रवर्त्तमानाऽपि बन्धुद्धाभिरन्वहं । विधत्ते नाभिलाषं तु स्वमेऽपि नरसमिधेः, ॥ ३५७ ॥ यदृच्छाच्छेदभीतेर्वा, केनापि नियमेन वा, । किंवा जन्मान्तरायातनृविशेषानुरागतः ॥ ३५८ ॥ युम्मम् विषण्णया च तन्मात्रा मन्त्रजापविधानतः । प्रज्ञप्तिविद्या विज्ञप्ता, तया स्वमे निवेदितम्. ॥ ३५९ ॥ "वत्से ! नमन्नृपश्रेणिचूडाचुम्ब्यपदाम्बुजः । भूगोचरनृपोत्पन्नः पतिरस्या भविष्यति. ॥ ३६० ॥ प्रेमपात्रं परं चैपा जन्मान्तरसखी श्रियः, । त्वत्सुता सुकृतेर्जाता, द्रष्टच्या सादरं ततः." ॥ ३६१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84