Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 41
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S AMAKOSxee दिव्यवल्कलसंवीतां, किश्चित्मुकुलितेक्षणाम् , दधानां दक्षिणे पाणौ स्थूलमुक्ताक्षमालिकाम् ॥ ५५३ ॥ युग्मम् अथासौ जपविध्यन्ते परिचारिकया युता । जगतीपतिमापूजां कृत्वाऽऽयाता पुरो मम. ॥ ५५४ ॥ कृत स्वागतमाचख्यो-“पवित्रय ममाश्रमम् "| तयेत्यभिहितोऽगन्छमथाहमपि तन्मठम् ।। ५५५ ॥ आतिथ्यान्ते सुखासीनः पृष्टो वृत्तान्तमब्रुवम् , | अत्रान्तरे नभोमध्यमारुरोह नभोमणिः. ।। ५५६ ॥ कृत्वा मध्यान्हकृत्यं सा मयि पूजितदेवते । उपनीतवती स्वादुसुरशाखिफलोत्करम्. ॥ ५५७ ॥ भुक्त्वा चान्ते स्वयं कृत्वा वृत्ति मूलफलादिभिः, । ममान्तिकं समागत्य चकारासनसङ्ग्रहम् ।। ५५८ ॥ उक्ता मया क्षणं स्थित्वा-"तावकीयं सुशीलता | विदधाति महाभागे ! ममाकस्मिकचापलम् ॥ ५५९ ॥ वद, कस्तव सवंशः ? कानि नामाक्षराणि वा ? वैखानसत्तं किं वा ? विद्वेषो विषयेषु किं ?" ॥ ५६० ॥ इत्युक्ते सहसा तस्यास्तरुणार्ककराहता । ताराश्रेणिरिव प्राच्याः पपाताश्रुकणावलिः ॥ ५६१ ॥ मयाऽथ सविषादेन समाश्वास्यार्पितजलैः । प्रक्षाल्य वदनं, स्थित्वा, सा वक्तुमुपचक्रमे. ॥ ५६१॥ "यद्यपि प्रागवस्था मे श्रुता दुःखौघदायिनी, । कथयामि तथापीमां शृणु कौतुकिनस्तव.-॥५६२॥ अस्तीह मेदिनीपीठे पुरी काचीति विश्रुता, । चापाचार्यपदं चक्रे पश्चपोर्यधृजनः ॥ ५६३॥ रिपुवीरम्यसीमन्तसिन्दरस्य समीरणः । तस्यां विश्वत्रयीख्यातो राजा कुसुमशेखरः ॥ ५६४ ॥ देवी गन्धर्वदत्तेति तस्यान्तःपुरिकोत्तमा. । तदात्मजाहमेकैव स्वजनोद्वेगकारिणी. ॥ ५६५ ॥ ज्ञानिना वसुरातेन मदुत्पत्तौ निवेदितम्,- 'एषा सम्पत्स्यते काम कन्यका पुण्यभागिनी. ॥ ५६६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84