Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीतिलक मञ्जरी 1.२०॥ कथा सार. परिणेष्यति यश्चैनमाधिपत्यमसौ क्षितेः । चक्रिणा निहितात्मीयराज्यभारः करिष्यति'. ॥ ५६७ ॥ कृत्वा जन्मोत्सवं तातोऽप्युवाच दशमेऽहनि । भाषयध्वमिमां पुत्री नाम्ना मलयासुन्दरी. ॥ ५६८ ॥ क्रमोपचीयमानाथ स्वीकृताशेषसत्कला । लीलोपदेशनाचार्यमवापं नवयौवनम्. ॥ ५६९ ॥ प्रसुप्ता चन्द्रशालायामेकदा च निशामुखे । दिव्यतूर्यनिनादेन निद्रात्यागमहं व्यधाम् . ॥ ५७० ॥ अपश्यं च मणिग्रावनिर्मितेजिनवेश्मनः । कोणैकदेश आत्मानं नृपकन्याभिरावृतम् ॥ ५७१ ॥ तासु काचिद्विषादस्था, काचित्कौतुकचञ्चला, । काचिद्वातायनासीना, काचिदूर्ध्वकृतस्थितिः, ॥ ५७२ ॥ सक्षोभा च क्षणं स्थित्वा विहाय सहजं भयम् , । तत्रार्द्धजरतीमेकामपृच्छं विनयानता. ॥ ५७३ ॥ "आर्ये ! कः सन्निवेशोऽयं ? के एते रुचिरा नराः ? । कोऽयं मेरुरिवाद्रीणामेषां मध्ये महीपतिः ?" ॥ ५७४ ॥ सोवाच-"वत्से ! द्वीपोऽयं 'पञ्चशैल' इति श्रुतः । वैताढ्यखेचरा एते, पतिरेषामयं पुनः ॥ ५७५ ॥ विचित्रवीर्यनामेति." त्योवते, सहसागतः । दण्डी पवनगत्याख्यः, खेचरेशं व्यजिज्ञपत्.-॥ ५७६ ॥ "देवात्र दीयतां दृष्टिः, कुशस्थलपतेरियम् । पुत्री प्रतापशीलस्य गौराङ्गी कुसुमावली. ॥ ५७७ ॥ इयं च चम्पकच्छाया पुरो मलयसुन्दरी । यादवोऽस्याः पिता काश्चीनृपः कुसुमशेखरः. ॥ ५७८ ॥ एपात्र मगधेशस्य महाबलमहीपतेः । सुतास्ते बन्धुमत्याख्या श्यामाङ्गी मत्तवारणे. ॥ ५७९ ॥ एताश्च स्फाटिकी वेदीमारूढा सरलत्विषः । पुत्र्यः कलिङ्गयङ्गकुलूतादिमहीभुजाम्. ।। ५८० ॥ लीलावतीन्दुलेखाऽथ कामलेखा च मालती, । इत्यादिनामभिः ख्यातिं गता देशान्तरेष्वपि." ॥ ५८१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84