Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
****
अथ ता: रमेरदृग् दृष्ट्वा निकटस्थां विलासिनीम् । आदिक्षचित्रलेखाख्यां राजा तन्मण्डनं प्रति. ॥ ५८२॥ निर्वर्तिते तया तत्र क्षीरोदाद्याहृतैर्जलैः । स्नानं मणिमयैः कुम्भश्चक्रे विश्वत्रयीपतेः. ॥ ५८३ ॥ दध्वनुमन्द्रवाद्यानि वेणुर्वीणाः सहस्रशः, । जगुर्मधुरगायन्यो, ननृतुर्नपकन्यकाः ॥ ५८४ ॥ ननित्या चित्रलेखां तां गच्छन्ती खेचराधिपः । निजासनकदेशे मां समाहृय न्यवेशयत्. ।। ५८५ ।। उन्नमय्याथ चिबुकं, बभाषे कलया गिरा,- “विचित्रस्यास्य नाट्यस्य कुतो वत्से ! तवागमः ?" ॥ ५८६॥ त्रपानतमुखी मन्दं प्रोवा चाह-" पितर्मम । नैको गुरुर्विशेषस्तु शिक्षिता मातुरन्तिके." ॥ ५८७ ॥ "वत्से ! तया कुतो ज्ञाता?" "तात ! खेचरलोकतः" । "वत्से ! केनाभिधानेन प्रसिद्धा जननी तव ?"॥५८८॥ "तात ! गन्धर्वदत्तेति." तच्छुत्वा सचिवोब्रवीत् । वीयमित्राभिधो-"देव ! न सा देवस्य पुत्रिका." ॥ ५८९ ॥ अथावोचन्नृपो-"वत्से ! मानवर्णवयोगुणः । कीदृक् सा ?" "तात ! मानेन नातिहस्वा न चायता. ॥ ५९० ॥ ६ अनुकारस्तु देवस्य किश्चिन्नान्यस्य कस्यचित्."। " वसे ! को जनकस्तस्याः ?" "कश्चिद्वैखानसः पितः ॥५९१॥ "वत्से ! स किं त्वया दृष्टः?" "तात ! लोकाच्च्तो मया" | "किं ते वा न किञ्चित्सा?""पृष्टा रोदिति केवलम्" तेनाथ सचिवः पृष्टः-“सा कस्मादाय ! रोदिति ?"। 'सोऽभ्यबाद-"देव ! तद्ज्ञातौ विपत्तिः कापि कारणम्."५९३॥ 'वत्से ! न किमपि ते यदि सा, तत्कथं त्वया । ज्ञातं-विद्याधरे लोके तस्या नाटयागमोऽजनि ? " ॥ ५९४ ॥ "तात ! विज्ञापयाम्यस्मात्समतिकान्तवत्सरे । मुनिर्महायशा नाम काञ्च्यामयाबहुव्रती ॥ ५९५ ॥ बाह्योद्याननिविष्टं च तं द्रष्टुं मत्पिता गतः, । सर्वे च नागरा लोका जननी च मया सह. ॥ ५९६ ॥
*
****
For Private and Personal Use Only

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84