Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अपश्चिमं जिनाधीशं वज्ररत्नशिलामयम् । श्रीमहावीरनामानमपश्यं शान्तदर्शनम् ॥ ६१२ ॥ पितृकल्पं तमालोक्य पूर्वाभीष्टस्य कस्यचित् । स्मरन्तीव घनोत्कण्ठाकरवं पुरतः स्तवम्. ॥ ६१३ ॥ आनन्दशोकसम्मिश्रस्वसंवेद्यं दशान्तरं । अनुभूय, सखीवाक्यादथागां द्रष्टुमर्णवम्. ॥६१४ ॥ आरुह्य दक्षिणां भित्ति प्राकारस्य महोर्मिभिः । आरफालिते तले तस्य स्फाटिके चक्षुरक्षिपम्. ॥ ६१५ ॥ अद्राक्षं तत्र नौसंस्थमेकं नृपकुमारकम् । उदन्वसौहृदायातमिन्दुर्देवपथादिव ॥ ६१६ ॥ दक्षत्रिचतुरैरेव सहित परिचारकैः । निद्राक्लान्तैः समन्वीतं कियद्भिः कर्णधारकैः ॥ ६१७ ॥ दृष्टा चाऽचिन्तयं नूनं-"रूपगर्वेण खर्वितः । अनेन पुष्पधन्वापि बद्धो वामे निजक्रमे ।। ६९८ ॥ अथेग्रंया निज रूपमाविष्कर्तुमिव स्मरः । गृहीतसारश्रृङ्गारो विवेश हृदयं मम. ॥ ६९९ ॥ स्तिमितैस्तरलैर्मुग्धैः प्रगल्भैः कुटिलक्रमैः । सरलैः पटुभिर्जिह्मरीक्षणस्तं व्यलोकयम् ॥ ६३० ॥ समार्थनां सवैदग्धां सानुरागां सविभ्रमाम् । सात्मार्पणां सवैधुर्या दृष्टिं सोऽपि मयि न्यधात् ॥ ६२१ ॥ तवाथ कृतादेश एकः कैवर्तको युवा । मां प्रणम्य सविश्वासमवोचच्चतुरं वचः,-॥ ६३२ ॥ "देवि ! सिंहलनाथस्य चन्द्रकेतोस्तनूद्भवः । नाम्नायं समरकेतुरिहायातः प्रसङ्गतः, ॥ ६२३॥ दुष्प्रवेशमपुण्यानां त्वच्चेत इव वीक्षितुम् । वाञ्छत्येष इदं चैत्यं तदादेशय पद्धतिम्. ।। ६२४ ॥ वेश्या वसन्तसेनाख्यामवन्तिनृपसम्मताम् । “ सखि ! ब्रूहि यथावृत्तमस्ये"त्यहमथावदम्. ।। ६२५ ॥ साध्वोच"भद्र ! केनापि रात्रावधैव नायिका । आनीता नस्तथषोऽपि सर्वो भूपसुताजनः ॥ ६२६ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84