Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्री तिलक मञ्जरी ॥२१॥
www.kobatirth.org
तया प्रणम्य प्रस्तावे पृष्टं - 'विद्याधरान्वये । भगवन्नहमुत्पन्ना जाते च पुरविप्लवे ।। ५९७ ॥ वियुक्तास्मि सर्वैराप्तैरद्यापि न सङ्गमः । अत आदिश तैयोगो भविष्यति न वा मम ? " ।। ५९८ ॥ " वत्से ! ततः किमाचख्यावसौ ?” “तातेदमुक्तवान् । 'भविष्यत्यचिरादेव' पुनः पृष्टं 'कदा मुने ! १' ।। ५९९ ॥ क्षणं ध्यात्वा क्षिप्तस्मेरचक्षुरथादिशत्- । 'कल्याणि ! तव पुत्रीयं यदा' - इत्यादि किमप्यसौ " ।। ६०० ॥ " आर्य ! किं स्यात्तदादिष्ट" रित्युक्तः सचिवोऽभ्यधात्स - "देव ! आदिष्टो विवाहेऽस्या नूनं त्वद्वन्धुसङ्गमः " ॥ ६०१ ॥ " वत्से ! कस्मान्न पृष्टोऽसौ अज्ञाते कथमागमः ? " । "पृष्टः उक्तं च तात !-' ते स्वयमेवावभोत्स्यन्ते ।। ६०२ ॥ नीत्वा त्वया सहैनां च स्वकीयं च निकेतनम् । अस्याः समुचितं कृत्यं सर्वमेव करिष्यन्ति " | ६०३ ॥ अथ मन्त्री समाचष्टे - "देवेदं ज्ञातमेव हि । सन्देहश्वेत्तदानाय्य तामेव कुरु निर्णयम्. " ॥ ६०४ ॥ " आर्य ! नैवं, परस्त्रीणां यतो निन्द्यं विलोकनम् । चित्रलेखा निराकर्त्ता भ्रान्तिमेषैव तत्सखी. " ॥ ६०५ ।। प्रातः शङ्खोऽथ दध्वान, विसृज्य खेचरप्रभून । सोऽपि विद्याधराधीश आदिदेश निजं नरम् || ६०७ ॥ "अस्याः पवनवेग ! त्वं पुत्र्याः काञ्चीपतेरिह । कृत्वा, गौरवमत्रत्यं सर्व दर्शय कौतुकम् || ६०७ ॥ सहैताभिश्च कन्याभिर्यथास्थानमिमां नयेः " । इत्यादिश्य विमानस्थों जगाम सह खेचरैः ॥ ६०८ ॥ तन्नियुक्त नरोद्दिष्टरम्योद्देशविलोकनम् । कुर्वाणाऽहमपि प्राप तत्राकस्मिकविस्मयम् ॥ ६०९ ।।
तु कृतसेवं तु, कारितं तु स्वयं पुरा । तदायतनमालोक्य प्राविशं गर्भमन्दिरम् ॥ ६९० ॥ तत्र दीपप्रभालोकं निरस्यन्तमभीशुभिः । हरिचन्दनलिप्ताङ्गं सुरद्रुस्रग्भिरर्चितम् || ६११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
कथा सार.
||२१|

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84