Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 40
________________ Shri Mahavir Jain Aradhana Kendra श्री तिलक मञ्जरी ॥१९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir T हरिवाहननामा, कृत्य व पेण हतः केनापि वैरिणा ॥ ५२८ ॥ शस्त्रिकादर्शनोत्रासान्निक्षिप्तश्च सरोवरे, । पदमुद्रानुमानेन भुवमेतां समागतः ॥ ५३९ ॥ विशेषकम् जातलोचनसाफल्यस्त्वां पृच्छामि, वदाधुना । कोऽयं देशो ? गिरिः को वा ? किं सरः ? कोऽत्र भूपतिः १ ॥ ५४० ॥ अथानतमुखी स्थित्वा मुहूर्त्तमकृतोत्तरा । दत्तमार्गा मया स्तोकं स्पृशन्ती वामतस्तनुम् ॥ ५४१ ॥ सकालकूटपीयूषच्छटां कूटिलवीक्षितैः । मोहाहादकरैः क्षिप्त्वा मयि द्रागेव निर्गता ॥ ५४२ ॥ युग्मम् " लोकाचारानभिज्ञत्वाद् वाङ्मात्रेणापि हीनया । किमेतयेति " सञ्चिन्त्य प्रस्थितोऽहमचिन्तयम् ॥ ५४३ ॥ " इदं वनमयं कन्याऽदृष्टपारमिदं सरः । अहो चित्रपटालेख्यसंवादं सर्वमश्नुते. " ॥ ५४४ ॥ इति सञ्चिन्त्य तां द्रष्टुं प्रतीपमगमं पुनः । अन्विष्याध्याप्ततद्वार्त्तो दिनशेषे सरोऽवजम् ॥ ५४५ ॥ प्रक्षाल्य चरणौ, स्मृत्वा देवतां, खादुकन्दलान् । मृणालिन्याः समास्वाद्य सुधारसमयं पयः ॥ ५४६ ॥ तस्यैव रक्ताशोकस्य प्रियास्पृष्टस्य सन्निधौ । विधाय पल्वैस्तरूपमहपनिद्रोऽस्वपं निशि ॥ ५४७ ॥ युग्मम् तामन्वेष्टुं पुनः प्रातर्भ्रान्त्वा सकलकाननम् । निःप्रत्याशः समारुह्य तटमेकं व्यलोकयम्. ॥ ५४८ ॥ अथोत्तरे सरस्तीरे पक्षिक्षोभकुतूहलात् । गत्वा दृष्ट्वा च तत्रार्द्राः पदश्रेणीर्विनिगतीः ॥ ५४९ ॥ ताभिर्गच्छन् पुरोऽपश्यं प्रासादं पद्मरागजम् । गन्धर्वकानुयातेन दृष्टोऽहं यद्वने त्वया ॥ ५५० ॥ युन्मम् तत्र देवं नमस्कृत्य निविष्टो मत्तवारणे । अपश्यं लोललावण्यामेकां तापसकन्यकाम् ॥ ५५१ ॥ सद्यः कृताभिषेकस्य पूजितस्य नवाम्बुजैः । पुरो नाभेयनाथस्य निवद्धकमलासनाम् ॥ ५५२ ॥ For Private and Personal Use Only कथा सार. १॥१९॥

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84