Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 37
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नमत्तमवनीचुम्बिशिरसोक्षिप्य सादरम् , | आलिङ्गय विष्टरस्यार्दै समक्षिप्य न्यवेशयत् ॥ ४९३ ॥ राजपुत्रीमवादीच-" देवि ! सिंहलशासितुः । चन्द्रकेतोर्महीभर्तुः सूनुर्वीरवराग्रणीः, ॥ ४९४ ।। चरो मलयसुन्दर्यास्त्वत्स्वसुः स्वेच्छया वृतः, । स एष समरकेतुर्दुःखित्वं यं विना मम." ॥ ४९५ ॥ इत्युक्ते युवराजस्तामनंसीत्, सापि चक्षुषा । ससम्भ्रममपश्यत्तं चिरं निश्चलपक्ष्मणा. ॥ ४९६ ॥ अत्रान्तरे प्रतीहारी तां प्रविश्य व्यजिज्ञपत- " श्रुत्वान जीवितत्यागं देव्या श्रीपत्रलेखया ॥ ४९७ प्रहितः कञ्जुकी द्वारे तिष्ठतीति "ततश्च सा । निर्यातोत्तरमप्राप्य, कोऽप्यथार्यामिमां जगौ, ॥४९८॥ " तव राजहंस ! हंसीदर्शनमुदितस्य विस्मृतो नूनम् । सरसिजवनप्रवेशः समयेऽपि, विलम्बसे येन. ४९९॥" श्रत्वोवाच कुमारस्तां “देवि ! विद्याधरे पुरे । प्रवेशलग्नमाचष्टे विराधोऽयं ममाधुना ॥ ५० ॥ तदादिशाहं गच्छामि, त्वं च देवीं विलोकय." । इत्युक्त्वा विष्टरात्सुतजयध्वानैः सहोत्थितः ॥५०१॥ आरुह्य करिणीपृष्ठं समं समरकेतुना, । व्योम्नि तालीवनं कुर्वन वातोत्ताण्डवितध्वजैः, ॥५०२॥ सेनया व्योमयायिन्या नि?षमपरेण च । दिक्पालानामकुर्वाणः कर्णाक्षिपुटपीडनम् , ॥५०३॥ शिखण्डिकोकिलपायपतत्रिकुलसङ्कलाम् । कस्तूरिकामृगप्रायश्वापदापादितश्रियम् , ॥५०४॥ किन्नरमायसीडद्वनेचरविराजिताम् , | चन्द्रकान्तविनिष्यन्दप्रायनिझरवाहिनीम् , ॥५०५॥ गवर्कोद्गीर्णसप्तार्चिप्रायदावानलोद्गमाम् , । कान्तारदेवताश्वासपवनप्रायमारुताम् , ॥५०६॥ स्फटिकमायपाषाणां, संकलमायभूतलाम् , । अन्तरालाटवीं पश्यन्वैताढयस्यैकशृङ्गतः ॥५०७।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84