Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल-४
कया
क मञ्जरी ॥१७॥
प्रासादः कस्य दिव्योऽयं ? मठस्योपरिभूमिकाम् । कोऽधितिष्ठति ? संलप्य येन सार्द्धमिहागतः " ॥४७८॥ क्षणं विलम्ब्य सोऽवादीदा-"स्तां तावदियं कथा, । उत्तिष्ठ ! भ्रातरं पश्य खेचरालिनुतक्रमम्. ।। ४७९ ॥ अनुश्रोतासि मदृत्तं, देवोऽपि हरिवाहनः । वैताट्यशिखरे राज्यं प्राप्याद्यैव समाययो. ॥९८०॥ इत्युक्ते हेलयोत्तीर्य शेषप्रासादवर्तिनीः । पद्मरागमहानीलपुष्परागेन्दुकान्तजाः ॥ ४८१ ॥ अश्मगर्भेन्द्रनीलादिघटिताः स्फुटरोचिषः । अजितादिजिनेशानां प्रतिमाः प्रणमन् मुहुः ॥ ४८२ ॥ गन्धर्वकोपदिष्टाध्वा गच्छन् , वृन्दमथावर्ताम् । पश्यन्नचिन्तयत्-"नूनमेषा हेपा मया श्रुता." ॥४८॥ विशेषकम् . अथ गीतस्य झात्कारं, वीणावेणुरवानुगम् , । शुश्राव श्रुतमुद्वक्त्रमृगर्मीलितदृष्टिभिः ॥ ४८४ ॥ अनन्तरं च हारीच (?) हरितं कदलीगृहम् , । अपश्यदङ्गणासीनभूरिभूपपरिच्छदम्. ।। ४८५ ॥ अद्राक्षीदस्य मध्ये च निविष्टं हरिवाहनम् । सलील वारनारीभिरुद्धृतसितचामरम्. ॥ ४८६ ॥ खिद्यत्सखीजनोत्सङ्गनिःसहक्षिप्तदेहया । तल्पे कमलपत्राणां चन्दना शयानया. ॥ ४८७ ॥ देहोत्तापातिरेकेण शुष्कचन्दनपङ्कया । नवीनवयसा पार्श्वेऽलङ्कतं नृपफन्यया ॥४८८।। युग्मम् भीत्या गन्धर्वकेणाथ निवेदिततदागमः । हरिवाहन उत्तस्थावासनात् , तं ददर्श च. ॥ ४८९ ॥ मृदुवल्कलसंवीतं, वल्लीनद्धोर्ध्वमूद्धजम् , । वातोद्धृतलतापुष्परेणुधूसरविग्रहम् ॥ ४९० ॥ धैर्यावष्टम्भसौहार्दपौरुष्यादिगुणावलीम् । द्रष्टुं समुदितां धात्रा कौतुकादिव निर्मितम् , ॥ ४९१ ॥ अथानन्दाश्रुबिन्दूनां सन्दोहैरर्थकल्पनम् । कुर्वन्मुक्तामयं सद्यः प्रत्युद्गम्य प्रमोदतः ।। ४९२ ॥
For Private and Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84