Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie श्री तिल-8 कया सार क मञ्जरी ॥१७॥ करीन्द्रसाधनाध्यक्षः पुष्कराक्षो व्यजिज्ञपत् “कुमार ! यामिनीयामे चरमे मदगन्धतः ॥ ३९२ ॥ गतो वनं हटाद्वैरियमदण्डाभिधः करी । प्रातर्दृष्टः समानेतुं यत्नेनापि न पारितः. ॥ ३९३ ॥ तस्मादादिश्यतां कश्चित् , नोचेदूरीभविष्यति"। "वयमेव ग्रहीष्यामः" इत्युक्त्वा शिबिरस्थितम् ॥ ३९४ ॥ विधाय कमलगुप्तमारुह्य वरवाजिनम् , । स्तोकपत्तिवृतः सार्दै सिंहलेश्वरमूनुना, ॥ ३९५॥ महामात्रोपदिष्टाध्वा जगाम जवतो वनम् । वनेभदानसंसिक्तं, सानो परिणतं रुषा ॥ ३९६ ॥ तत्रालुलोके करिणं दूरस्थाधोरणास्तम्. । हयादुत्तीर्य रुद्धोऽपि साशकं नृपसूनुभिः ॥ ३९७ ॥ मन्दं मन्दं चचालाथ वीणापाणिगर्ज प्रति. । तदन्तिकलतागुल्मे ताडयामास बल्लकीम् ॥ ३९८ ॥ आकर्ण्यमानां मौनस्थैः कुञ्जावस्थितकिन्नरः । तदारवं समाकर्ण्य, विचैतन्य इव क्षणम् ॥ ३९९ ॥ तस्थौ करी. कुमारोऽपि त्वरया तमुपासपत्. । गत्वा च लीलयाऽऽरोहदथ तत्क्षणमेव सः. ॥ ४००॥ करी चचाल साटोपः तस्माच्छलोपकण्ठतः । “अडशोऽशः" इत्युक्ते कुमारेणानुधावितैः ॥ ४०१॥ परिकरर्जवादृष्टः दूरोच्छलित शृङ्खलः । 'एष यात्येष यात्येवं ' राजलोकेन दर्शितः ॥ ४०२॥ झगित्येवातिचक्राम तेषां लोचनगोचरात्. । कुमारहरणोदन्तमथाकर्ण्य समन्ततः ॥ ४०३ ।। अधावत हयारूढानीकनायकसन्ततिः । सिंहलाधिपमनुश्च राजसूनुगणावृतः ॥ ४०४ ॥ बलेन वाजिनां पश्चादवहत्सकलं दिनम् । अस्ताचलस्थिते भानौ राजपुत्रानुरोधतः ॥ ४०५॥ वासं जग्राह. नाहारमग्रहीत्कथमप्यसौ. । तुरङ्गपृष्टास्तरणे निषण्णश्चानयन्निशाम्. ॥ ४०६ ।। २॥१४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84