Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra श्री तिलक मञ्जरी ॥१५॥ *-% www.kobatirth.org सेनाधिपोऽश्रुपूर्णाक्ष निविष्टः स्वगृहाजिरे, | अपश्यदवनौ लेखमकस्मादिममग्रतः ॥ ४२१ ॥ दृष्ट्वा नामाक्षर श्रेणी कुमारस्यातिविस्मितः । उद्वेष्टय राजपुत्राणां पुरः स्वयमवाचयत् ॥ ४२२ ॥ "स्वस्त्यव्या महाराजनन्दनो हरिवाहनः । निजे लौहित्यकुलस्थे स्कन्धावारे विजेतरि ।। ४२३ || कुशली निर्दिशत्येवं युवराजं ससैनिकम् । अत्रैवावस्थितिः कार्या वासराणि कियन्त्यपि ॥ ४२४ ॥ तनुर्न बलेशनीया च मय्यनिष्ट विकल्पनात् । ममापहारवृत्तान्तः पित्रोः प्राप्यश्च न श्रुतौ " ॥ ४२५ ॥ अथ संहृत्य तं लेख " केनानीतः ? " इति ब्रुवन् । लिखित्वा, प्रतिलेखं च निवेश्य मणिपीठके, ॥ ४२६ ॥ उवाच - "येन केनापि दिव्यलोकाधिवासिना । अयं लेख इहानीतः, प्रतिलेखं नयत्वसौ.', ॥ ४२७ ॥ थाकस्मात्समुत्तीर्य कश्चिच्चूततरोः शुकः । चञ्चपुटे तमादाय झगित्युत्पतितो नभः ॥ ४२८ ॥ सविरमयश्वनाथोऽप्याश्वासनविधित्सया । सलेखं प्रेषयामास मां त्वत्पादयुगान्तिकम्. " ।। ४२९ ॥ युवराजोऽपि सन्तोषदानं दत्वा विसृज्य तम् । स्नातो विहितदेवाचें बुभुजे स परिच्छदः ॥ ४३० ॥ लेखे धात्वक्षरालोकात् वर्णचूर्णावचूर्णिते । उहे तेन कुमारस्य दिव्योचितवनस्थितिः ॥ ४३१ ॥ अथ सङ्कल्पयामास - " वैताढ्यमनुयाम्यहम् । ग्रामाश्रमपुरा रण्योज्झितमार्गो विमार्गयन ॥ ४३२ ॥ सैन्यं न शक्यते नेतुं मार्गस्य विषमत्वतः, । यियासौ सर्वलोके तु स्तोकान्नेतुमसाम्प्रतम्. ॥ ४३३ ॥ अतोsनापृष्टसन्धुरसंस्थापितसैनिकः । रात्रौ यात्राविधानेन स्वार्थसिद्धिं करोम्यहम् " ॥ ४३४ ॥ इति सञ्चिन्त्य सञ्जाते निशीथेऽसिलतासखः । सितक्षौमधरो विभ्रवान्दनीं च ललाटिकाम् || ४३५ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir कथा सार ॥१५७

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84