Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 33
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यञ्जितारब्धसिद्धिश्च स्फुरदक्षिणबाहुना । कुबेरवल्लभामाशामूरीकृत्य विनिययौ. ॥ ४३६ ॥ युग्नम् उद्गते नलिनीबन्धावन्वेषकजिहासया । उत्पथेन पथि गच्छन्नवाप गहनाटवीम् ॥ ४३७ ॥ ततो गिरिणदीस्नायी, फलाशी, निर्झराम्भसाम् । पायी, गिरिगुहाशायी, समुत्थायी द्विनारवैः ।। ४३८॥ गच्छन्मित्रवराख्येन कृतातिथ्योऽतिगौरवात् । प्राग्ज्योतिपाधिपभ्रात्रा, पश्यंश्च विविधान्नरान् ।। ४३९ ॥ क्वचिच्छृङ्खलकग्रीवान् क्वचित्तुरगतुण्डकान् । क्वचिल्लोमविलुप्ताङ्गान् क्वचिदेकांहिचारिणः ॥ ४४० ।। पण्मासान् गमयांचक्रे, समाक्रामन् स उत्तराम् । मन्यमानस्तृणायैव तन्नो शीतातपक्लमम्. ॥ ४४१॥ अथैकशृङ्गनामास्ति गिरिर्वताढयसन्निधौ । अष्टापदाभिधं शैलं पश्चिमेन मनोहरः. ॥ ४४२ ॥ तच्छृङ्गवर्मना गच्छन् निदाघ समागमे, । ददर्शादृष्टपाराख्यं दृष्टिप्रीतिकरं सरः. ॥ ४४३ ॥ डिण्डीरपिण्डपाण्डिम्ना स्मयमानं तदागमे । नृत्यन्नभस्वदुद्भुतहारिनीरजराजिभिः, ॥ ४४४ ॥ वदत्स्वागतमुल्लासिमरालललनारुतैः, । क्षिपदर्घमरुत्तीरविसारिजलसीकरैः ॥ ४४५ ॥ तत्रोल्लासिघनानन्दः स्नात्वा तीरभुवि क्षणम् । सुधापानोकहच्छाये विकीर्णनलिनच्छदः ॥ ४४६ ॥ स्वमे प्रपौढिमायान्तं पारिजातमहीरुहम् । अपश्यत्कल्पलतया समीहितसमागमम् ॥ ४४७ ।। प्रबुद्धश्च, समं सख्या निरचषीत्समागमम् , । अकस्मादथ शुश्राव हयवृन्दस्य ड्रेषितम् . ॥ ४४८ ॥ सज्जिज्ञासां परिज्ञाय प्रस्तुते विनकारिणीम् । विकटैः पदविन्यासः प्रतस्थे पुनरुतराम् ॥ ४४९ ॥ पाणेः प्रदक्षिणोत्तीर्णर्मनसा सप्रसत्तिना । स्फुरता दक्षिणाक्षणा च विद्धगमनोद्यमः ॥ ४५० ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84