Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 29
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org कृतान्हिको दिनं नीत्वा, चित्रकन्यावलोकनात् । कृत्वा सान्ध्यं ययौ वेश्म भूपतेः सपरिच्छदः. ॥ ३७७॥ उपास्य पितरं नत्वा जननीं च, निजालयम् । अगाद्विसृष्टलोकश्च प्राविशद्वासवेश्मनि ॥ ३७८ ॥ तल्पमध्यास्य वारस्त्रीसंवाहितपदाम्बुजः । चक्रसेनसुतारूपध्याननीरुद्धमानसः || ३७९ ॥ तरङ्गितोत्तरपट: पर्यङ्कपरिवर्त्तनैः । शतयामामिवानषीद्यामिनीं कथमप्यसौ ॥ ३८० ॥ प्रातः प्रह्णेतनस्यान्ते विधेः सह पदातिभिः । तदेवोद्यानमगमत् तस्थौ चित्रं विलोकयन् ॥ ३८१ ॥ उपस्थिते च मध्यान्हे, तत्रैवार्चितदैवतः । भुक्त्वा, गृहीतताम्बूलः स्थित्वा सावसथं ययौ ॥ ३८२ ॥ कारणानि समाचिन्वन् गन्धर्वकविलम्बने । कृच्छाप्तनिद्रः क्लेशेन गमयामास शर्वरीम् ॥ ३८३ ॥ इत्थं दिनेषु गच्छत्सु गन्धर्वकविलम्बनात् । चत्रसेनसुतामाप्तौ शिथिलाशो बभूव सः ॥ ३८४ ॥ अथैकदा, शरत्प्राप्तौ तचैतनसमुद्भवात् । उद्वेगात्सदने स्थातुमसहः क्षणमप्यसौ ॥ ३८५ ॥ स्वमण्डलदिदृक्षायामुद्दश्यातिकुतूहलम् । पितरं मन्त्रिवक्त्रेण सप्रणामं व्यजिज्ञपत्. ॥ ३८६ ॥ अनुज्ञातगमस्तेन समं समरकेतुना । मित्रैरन्यश्च नगरात्प्रशस्तेऽहनि निर्ययौ ॥ ३८७ ॥ वहन्नध्वनि तत्रत्यराजलोकैर्निवेदिताः । पश्यन्नगनदीग्रामधर्मारण्यादिसंहतीः ॥ ३८८ ॥ कामरूपमनुप्राप्य तत्र प्राग्ज्योतिषाधिपः । धृतवानसमप्रीतिस्तं दिनानि कियन्त्यपि ॥ ३८९ ॥ तं च तत्रस्थितं श्रुत्वा सर्वेप्यौदीच्यभूभृतः । प्राभृतैः स्वस्वदेशोत्थैः समागत्य सिषेविरे ॥ ३९० ॥ विचचार सामन्तैश्च लोहित्याद्रिवनालिषु । तत्लेरितः क्षणं चक्रे विनोदं मृगयागतम् ॥ ३९१ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84