Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 24
________________ Shri Mahavir Jain Aradhana Kendra श्री तिलकमञ्जरी ॥११॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्फुरितं दक्षिणं चक्षुः, स्यन्दितश्च ममाधरः । परांहसाऽथ नौर्यान्ती नादाश्रयनगान्तिकम् ॥ ३०२ ॥ विरराम ध्वनिः सोऽथ मामवादीच तारक:, । “कुमार ! विश्तस्तावद् ध्वनिर्मार्गोपदेशकः ॥ ३०३ ॥ गम्यते वा नवेदानीमहं तस्थावधोमुखः । ध्यायन्मुधाफलं चित्ते स्वकं चापलचेष्टितम् ॥ ३०४ ॥ अथोदयाद्रिचूडायां ताम्रचूडस्य चूडया । स्पर्द्धमानं रुचाभासीदशीतकरमण्डलम् ॥ ३०५ ॥ ततोऽक्षिपं पुरश्चक्षुरदूरे तस्य भूभृतः । अपश्यं च प्रभाभारं भासयन्तं नभःपथम् ॥ ३०६ ॥ दृष्ट्रा 'किमेतदि' त्यूहन्नद्राक्षं खेचरावलीम् । निर्गत्य तस्मादायान्तीमाकाशेनैकहेलया. ॥ ३०७ ॥ गद्वाजिव्रजारूढनायकां दिव्यतेजसम् । विस्तारतारद्दारालीकरशारीकृताम्बरम् ॥ ३०८ ॥ दृष्ट्वा च तं प्रभाराशि, तां च नाभश्वरीं चमूं । “प्रवर्त्तय पुरो नावमिति” तारकमभ्यधम् ॥ ३०९ ॥ "कोऽयं १ कस्मात् ? किमर्थं वा ? कथं वात्र समागतः ? " । जल्पद्भिरिति सावर्य दृश्यमानो नभश्वरैः || ३१० ॥ गत्वा स्तोकमधस्तस्य भूधरस्य, व्यलोकयम् । हेमाद्रिभास्वराकारं चलम्चीनांशुकध्वजम् ॥ ३११ ॥ अच्छस्फटिकनिष्पन्नप्राकारपरिवेष्टितम् । रत्नरूपकराजीनां रोचिषा रुद्धदिक्पथम् ॥ ३१२ ॥ पद्मरागमणिश्रेणिनिर्मितामलसारकम् । दिव्यायतनमुत्तुङ्ग मे कमस्यद्भुताकृति ।। ३१३ ॥ दृष्ट्वा चाचिन्तयं, “धन्याः, पत्रिणोऽप्यत्र ये स्थिताः । वन्यः कोऽपि सुकर्मासाविदं येन विधापितम् ॥ ३१४ ॥ स्वः शिल्पिटङ्कविच्छिन्न मणिग्रावोच्छलद्दलैः । क्षारोदोऽप्यस्य निष्पत्तौ शङ्के रत्नाकरोऽजनि . " ।। ३१५ ।। इति ध्यायत एवासौ कैवर्त्तकरनोदनात् । क्षणेन दक्षिणां भित्ति प्राकारस्याससाद नौः ॥ ३१६ ।। For Private and Personal Use Only कथा सार. ॥११॥६

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84