Book Title: Tilak Manjari Kathasar
Author(s): Virchand Prabhudas Pandit
Publisher: Virchand Prabhudas Pandit

View full book text
Previous | Next

Page 21
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SALUKASAMAND प्रापमुल्लोलकल्लोलमालाच्छन्ननभस्तलम् । भगवन्तमपांनाथं दिवो ज्यायःसहोदरम् ।। २५७ ॥ पञ्चभिःकुलकम् यद्वैभवं समालोक्य वाचो वाचस्पतेरपि । वस्त्वन्तरस्तुतौ यान्ति कण्ठे गद्गदरूपताम्. ।। २५८ ॥ तत्तीरसमयूभागे दत्तावासः परिग्रहम् । व्यग्रं गमनसामग्र्यां प्रत्येक्षे विश्वासरान. ॥ २५९ ॥ अथान्येयुः प्रतिष्ठासुः कृतपूजोऽर्णसांनिधेः । आगच्छम्ल्पपादातर्बाह्यमारथानमण्डपम्. ॥ २५० ॥ तत्र च प्रत्युषस्येव पौतिकानां कृताकृतम् । प्रेषितेन परिज्ञातुमायान्तं सह वेत्रिणा ।। २६१ ॥ नीलाम्बुजलदश्यामं वसानं वाससी सिते । मालतीरचितापीडं पाटलौष्टपुटच्छविम् ।। २६२ ।। वल्गन्मुक्तालताकान्तं सचन्दनरलाटिकम् । अपश्यं धीवरबावृत्तं तरुण नाविकम् ॥ २६३ ॥ विशेषकम् दृष्ट्वा तं रुचिराकारं प्रेतमायपरिच्छदम् । सातविस्मयः कोऽयमि'त्यपृच्छं पुरःस्थितम् ॥ २६४ ॥ सर्वनौसाधनाध्यक्ष यक्षपालितनामकम् । सोऽवादीत-"सर्वकैवर्त्तवर्गस्येषोऽधिनायकः." ।। २६५ ॥ अवदं पुनर "प्येषां किमित्येष विलक्षणः ?" । स जगादाऽ"स्य वृत्तान्त कुमार ! व्यासतः श्रृणु-॥२६६॥ अस्ति चामीकरद्वीपे पुरं मणिपुराभिधम् , । तत्र सांयात्रिकः श्रेष्ठी ख्यातो वैश्रवणाहयः ॥ २६७ ॥ तज्जाया वसुदत्तेति, तारकश्च तदात्मजः । अधीतशास्त्रो निष्णातः कलासु सकलासु च. ॥ २६८ ॥ स भृत्या सारभाण्डस्य यानपात्रमर्थकदा । प्राप सांयात्रिकैः साद रङ्गशालामिमां पुरीम् ॥ २६९ ।। आवासितस्य तीरान्ते तोयधेर्मलकेतुना । कैवर्तकुलमाथेन सहाभुत्तस्य सौहृदम् ।। २७० ॥ पुत्री सुदर्शना (प्रियदर्शना ) नाम जलकेतोरथान्यदा । तद्गृहं हारमादाय गता रवपितुराज्ञया. ॥ २७१ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84