Book Title: Tattvarthvarttikam Part 1
Author(s): Bhattalankardev, Mahendramuni
Publisher: Bharatiya Gyanpith

Previous | Next

Page 191
________________ १६८ तत्त्वार्थवार्तिके [ ३६ व्युत्क्रान्तेन्द्र के तच्छू णिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य सप्त दशभागाः उत्कृष्टा सागरोपमस्याष्टौ दशभागाः अजघन्योत्कृष्टा मध्ये समयोत्तरा । अवक्रान्तेन्द्र के तच्छ्रे णिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्याष्टौ दशभागाः, उत्कृष्टा सागरोपमस्य नव दशभागाः अजघन्योत्कृष्टा मध्ये समयोत्तरा । विक्रान्तेन्द्रके तच्छू णिषु चाष्टव ५ नारकाणां जघन्या सागरोपमस्य नव दशभागाः, उत्कृष्टा सागरोपमा, अजघन्योत्कृष्टा मध्ये समयोत्तरा । शर्कराप्रभादिषु प्रतिप्रस्तारमुत्कृष्टा स्थितिः करणक्रमेण वेदितव्या । कथमिति चेत् ? उच्यते "उपरिस्थितेविशेषः स्वप्रतरविभाजितेष्ट संगुणितः । उपरिपृथिवीस्थितियुतः स्वेष्ट प्रतरस्थितिर्महती ॥१॥" [ ] उपर्युत्कृष्टाऽधो जघन्या सर्वत्र समयाधिका अजघन्योत्कृष्टा मध्ये समयोत्तरा । अथैतेषां नारकाणामुत्पादविरहकाल: कियानिति ? अत्रोच्यते - सर्वासु पृथिवीषु जघन्य एकसमय:, उत्कृष्टाश्चतुर्विंशतिमुहूर्ताः सप्तरात्रिदिवानि, पक्षः, मासः, द्वौ मासौ, चत्वारो षण्मासा इति रत्नप्रभादिषु क्रमेण ज्ञेयाः । अथोत्पादः क्व केषामिति ? अत्रोच्यते - प्रथमायामसंज्ञिन उत्पद्यन्ते । प्रथमाद्वितीययोः सरीसृपाः । तिसृषु पक्षिणः । चतसृषूरगाः । पञ्चसु सिंहाः । षट्सु स्त्रियः । सप्तसु मत्स्य मनुष्याः । न च देवा नारका वा नरकेषु उत्पद्यन्ते । प्रथमायामुत्पद्यमाना नारका मिथ्यात्वेनाधिगताः केचिन्मिथ्यात्वेन निर्यान्ति, मिथ्यात्वेनाधिगताः केचित् सासादनसम्यक्त्वेन निर्यान्ति । मिथ्यात्वेनाधिगताः केचित्सम्यक्त्वेन निर्यान्ति । केचित्सम्यक्त्वेनाधिगताः सम्यक्त्वेनैव निर्यान्ति क्षायिकसम्यग्दृष्टयपेक्षया । द्वितीयादिषु पञ्चसुनारका मिथ्यात्वेनाधिगताः केचिन्मिथ्यात्वेन निर्यान्ति, मिथ्यात्वेनाधिगताः केचित् सासादनसम्यक्त्वेन निर्यान्ति, मिथ्यात्वे प्रविष्टाः केचित् सम्यक्त्वेन निर्यान्ति । सप्तम्यां नारका मिथ्यात्वेनाधिगता मिथ्यात्वेनैव निर्यान्ति । षड्भ्य उपरिपृथिवीभ्यो नारकाः मिथ्यात्वसासादनसम्यक्त्वाभ्यामुद्वर्तिता' द्वे तिर्यङमनुष्यगती आयान्ति । तिर्यक्ष्वायाताः २५ पञ्चेन्द्रियगर्भजसंज्ञिपर्याप्तकसंख्येयवर्षायुःषूत्पद्यन्ते नेतरेषु । मनुष्येष्वायाता गर्भजपर्याप्तकेषु संख्येयवर्षायुः षूत्पद्यन्ते नेतरेषु । नारकाः सम्यङमिथ्यादृष्टयस्तेन गुणेन 'नोद्वर्तन्ते । नारकाः सम्यग्दृष्टयः सम्यक्त्वेनोद्वर्तिता एकामेव मनुष्यगतिमायान्ति, मनुष्येष्वायाताः गर्भजपर्याप्तकसंख्येवर्षायुः षूत्पद्यन्ते नेतरेषु । सप्तम्यां नारका मिथ्यादृष्टयो नरकेभ्य उद्वर्तिता एकमेव तिर्यग्गतिमायान्ति, तिक्ष्वायाताः पञ्चेन्द्रियगर्भजपर्याप्तकसंख्येयवर्षायुः षूत्पद्यन्ते नेतरेषु । तत्र चोत्पन्नाः सर्वे मतिश्रुतावधिसम्यक्त्वसम्यङ मिथ्यात्वसंयमासंयमान् नोत्पादयन्ति । षष्ठ्याः उद्वर्तिता नारकास्तिर्यङ मनुष्येषु जाता केचिन्मतिश्रुतावधि सम्यक्त्वसम्यङमिथ्यात्वं संयमासंयमान् षडुत्पादयन्ति न सर्वे नाप्यतोऽन्यत् । पञ्चम्या उद्वर्तितास्तिर्यक्षूत्पन्नाः केचित् षडुत्पादयन्ति न सर्वे नाप्यतोऽन्यत्, मनुष्येषूत्पन्नाः केचिन्मतिश्रुतावधिमनः पर्ययसम्यक्त्वसम्यङमिथ्यात्वसंयमासंयमसंयमानुत्पादयन्ति न सर्वे नाप्यतोऽन्यत् । चतुर्थ्या उद्वर्तितास्तिर्यक्षूत्पन्नाः ३५ केचिन्मत्यादीन् षडुत्पादयन्ति नं सर्वे नाप्यतोऽन्यत्, मनुष्येषूत्पन्नाः केचिन्मतिश्रुतावधिमनःपर्यय१ तथा चोक्तम् - श्रमण सरिसव विहंगमफणिसिहत्थोनमच्छमणुश्राणं । पढमादिसु उप्पत्ती घडवारादो दु दोणिवा ति ।। २ -ताः केचित्तिर्यङमनष्यगतिमाया- श्रा०, ब०, ब०, मु०ता० । ३ न निर्यान्ति । १० १५ २० ३० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454