________________
१६८
तत्त्वार्थवार्तिके
[ ३६
व्युत्क्रान्तेन्द्र के तच्छू णिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य सप्त दशभागाः उत्कृष्टा सागरोपमस्याष्टौ दशभागाः अजघन्योत्कृष्टा मध्ये समयोत्तरा । अवक्रान्तेन्द्र के तच्छ्रे णिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्याष्टौ दशभागाः, उत्कृष्टा सागरोपमस्य नव दशभागाः अजघन्योत्कृष्टा मध्ये समयोत्तरा । विक्रान्तेन्द्रके तच्छू णिषु चाष्टव ५ नारकाणां जघन्या सागरोपमस्य नव दशभागाः, उत्कृष्टा सागरोपमा, अजघन्योत्कृष्टा मध्ये समयोत्तरा ।
शर्कराप्रभादिषु प्रतिप्रस्तारमुत्कृष्टा स्थितिः करणक्रमेण वेदितव्या । कथमिति चेत् ?
उच्यते
"उपरिस्थितेविशेषः स्वप्रतरविभाजितेष्ट संगुणितः ।
उपरिपृथिवीस्थितियुतः स्वेष्ट प्रतरस्थितिर्महती ॥१॥" [
]
उपर्युत्कृष्टाऽधो जघन्या सर्वत्र समयाधिका अजघन्योत्कृष्टा मध्ये समयोत्तरा । अथैतेषां नारकाणामुत्पादविरहकाल: कियानिति ? अत्रोच्यते - सर्वासु पृथिवीषु जघन्य एकसमय:, उत्कृष्टाश्चतुर्विंशतिमुहूर्ताः सप्तरात्रिदिवानि, पक्षः, मासः, द्वौ मासौ, चत्वारो षण्मासा इति रत्नप्रभादिषु क्रमेण ज्ञेयाः ।
अथोत्पादः क्व केषामिति ? अत्रोच्यते - प्रथमायामसंज्ञिन उत्पद्यन्ते । प्रथमाद्वितीययोः सरीसृपाः । तिसृषु पक्षिणः । चतसृषूरगाः । पञ्चसु सिंहाः । षट्सु स्त्रियः । सप्तसु मत्स्य मनुष्याः । न च देवा नारका वा नरकेषु उत्पद्यन्ते ।
प्रथमायामुत्पद्यमाना नारका मिथ्यात्वेनाधिगताः केचिन्मिथ्यात्वेन निर्यान्ति, मिथ्यात्वेनाधिगताः केचित् सासादनसम्यक्त्वेन निर्यान्ति । मिथ्यात्वेनाधिगताः केचित्सम्यक्त्वेन निर्यान्ति । केचित्सम्यक्त्वेनाधिगताः सम्यक्त्वेनैव निर्यान्ति क्षायिकसम्यग्दृष्टयपेक्षया । द्वितीयादिषु पञ्चसुनारका मिथ्यात्वेनाधिगताः केचिन्मिथ्यात्वेन निर्यान्ति, मिथ्यात्वेनाधिगताः केचित् सासादनसम्यक्त्वेन निर्यान्ति, मिथ्यात्वे प्रविष्टाः केचित् सम्यक्त्वेन निर्यान्ति । सप्तम्यां नारका मिथ्यात्वेनाधिगता मिथ्यात्वेनैव निर्यान्ति । षड्भ्य उपरिपृथिवीभ्यो नारकाः मिथ्यात्वसासादनसम्यक्त्वाभ्यामुद्वर्तिता' द्वे तिर्यङमनुष्यगती आयान्ति । तिर्यक्ष्वायाताः २५ पञ्चेन्द्रियगर्भजसंज्ञिपर्याप्तकसंख्येयवर्षायुःषूत्पद्यन्ते नेतरेषु । मनुष्येष्वायाता गर्भजपर्याप्तकेषु संख्येयवर्षायुः षूत्पद्यन्ते नेतरेषु । नारकाः सम्यङमिथ्यादृष्टयस्तेन गुणेन 'नोद्वर्तन्ते । नारकाः सम्यग्दृष्टयः सम्यक्त्वेनोद्वर्तिता एकामेव मनुष्यगतिमायान्ति, मनुष्येष्वायाताः गर्भजपर्याप्तकसंख्येवर्षायुः षूत्पद्यन्ते नेतरेषु । सप्तम्यां नारका मिथ्यादृष्टयो नरकेभ्य उद्वर्तिता एकमेव तिर्यग्गतिमायान्ति, तिक्ष्वायाताः पञ्चेन्द्रियगर्भजपर्याप्तकसंख्येयवर्षायुः षूत्पद्यन्ते नेतरेषु ।
तत्र चोत्पन्नाः सर्वे मतिश्रुतावधिसम्यक्त्वसम्यङ मिथ्यात्वसंयमासंयमान् नोत्पादयन्ति । षष्ठ्याः उद्वर्तिता नारकास्तिर्यङ मनुष्येषु जाता केचिन्मतिश्रुतावधि सम्यक्त्वसम्यङमिथ्यात्वं संयमासंयमान् षडुत्पादयन्ति न सर्वे नाप्यतोऽन्यत् । पञ्चम्या उद्वर्तितास्तिर्यक्षूत्पन्नाः केचित् षडुत्पादयन्ति न सर्वे नाप्यतोऽन्यत्, मनुष्येषूत्पन्नाः केचिन्मतिश्रुतावधिमनः पर्ययसम्यक्त्वसम्यङमिथ्यात्वसंयमासंयमसंयमानुत्पादयन्ति न सर्वे नाप्यतोऽन्यत् । चतुर्थ्या उद्वर्तितास्तिर्यक्षूत्पन्नाः ३५ केचिन्मत्यादीन् षडुत्पादयन्ति नं सर्वे नाप्यतोऽन्यत्, मनुष्येषूत्पन्नाः केचिन्मतिश्रुतावधिमनःपर्यय१ तथा चोक्तम् - श्रमण सरिसव विहंगमफणिसिहत्थोनमच्छमणुश्राणं । पढमादिसु उप्पत्ती घडवारादो दु दोणिवा ति ।। २ -ताः केचित्तिर्यङमनष्यगतिमाया- श्रा०, ब०, ब०, मु०ता० । ३ न निर्यान्ति ।
१०
१५
२०
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org