________________
३७ ]
तृतीयोऽध्यायः
केवलसम्यक्त्वसम्यङमिथ्यात्वसंयमासंयम संयमानुत्पादयन्ति न च बलदेववासुदेवचक्रधरतीर्थकरत्वान्युत्पादयन्ति केचित् कर्माष्टकान्तकराः सिद्धयन्ति । उपरि तिसृभ्य उद्वर्तितास्तिर्यक्षु जाताः केचित् षडुत्पादयन्ति मनुष्येषूत्पन्नाः केचित् मतिश्रुतावधिमनः पर्ययकेवलसम्यक्त्वसम्यङमिथ्यात्वसंयमासंयम संयमानुत्पादयन्ति न च बलदेव वासुदेवचक्रधरत्वान्युत्पादयन्ति केचित्ती - र्थंकरत्वमुत्पादयन्ति, अपरे कर्माष्टकान्तकराः सिध्यन्ति ।
१६९
उक्तः सप्ताव निविस्तीर्णोऽधोलोकः ।
इदानीं तिर्यग्लोकोऽवसरप्राप्तो व्याख्येयः । तत्रैतत्स्यात् -किमत्र व्याख्येयम् ? द्वीपसमुद्राधिष्ठातृधरणीधरवनक्षेत्रान्तरपरिमाणादि । यद्येवं तदवतिष्ठताम्, इदमेव तावद्वयाक्रियतां कुतः पुनरियं तिर्यग्लोकसंज्ञा प्रवृत्तेति ? उच्यते - यतोऽसंख्येयाः स्वयंभूरमणपर्यन्तास्तिर्यक्प्रचयविशेषेणावस्थिता द्वीपसमुद्रास्ततः तिर्यग्लोक इति । यद्येवं के पुनस्तिर्यगवस्थिता इति ? १०
अत आह—
जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥
आह - कुतः पुनरियं जम्बूद्वीपसंज्ञेति ? उच्यते
प्रतिविशिष्ट जम्बूवृक्षासाधारणाधिकरणत्वाज्जम्बूद्वीपः | १| अयं हि द्वीप ः प्रतिविशिष्टस्य जम्बूवृक्षस्य सपरिवारस्यासाधारणाधिकरणत्वं बिभत्ति नान्ये धातकीखण्डादयो द्वीपास्ततोऽस्य तत्साहचर्यात् जम्बूद्वीप इति संज्ञा अनादिकालप्रवृत्ता । तद्यथा - उत्तरकुरुमध्ये जगती पञ्चयोजनशतायामविष्कम्भा तत्त्रिगुण सातिरेकपरिक्षेपा ततः प्रदेशहान्या बहिः परिहीयमाणा मध्ये द्वादशयोजनबाहल्या, ' अन्ते कोशद्वयबाहल्या सा चैकया पद्मवरवेदिकया जाम्बूनदमय्या परिक्षिप्ता । तस्या बहुदेशमध्यभागे नानारत्नमयमेकं पीठमष्टयोजनायामं 'चतुर्योजन विष्कम्भं तावदुच्छ्रायं द्वादशभिः पद्मवरवेदिकाभिः परिक्षिप्तम् । तासां च पद्मवरवेदिकानां प्रत्येकं २० चत्वारि तोरणानि श्वेतानि वरकनकस्तूपिकानि, तस्योपरि मणिमयमुपपीठं योजनायामविकम्भं क्रोशद्वयोच्छ्रायम् । तन्मध्ये जम्बूवृक्षः सुदर्शनाख्यो योजनद्वयोच्छ्रितस्कन्धः षड्योजनोत्सेधविटपः, मध्ये षड्योजनविष्कम्भपरिमण्डलः अष्टयोजनायामः तदर्धमुच्छ्रितानां जम्बूनामष्टशतेन परिवृतः 'सुरवरवनिताक्रान्तः, तद्योगाज्जम्बूद्वीपः ।
लवण रसाम्बुयोगाल्लवणोवः |२| लवणरसेनाम्बुना योगात् समुद्रो लवणोद इति संज्ञायते । उदक्शब्दस्य पूर्वपद भूतस्य उत्तरपदभूतस्य च संज्ञायामुदभावोऽन्वाख्यातः ।
जम्बूद्वीपश्च लवणोदरच जम्बूद्वीपलवणोदौ तावादी येषां ते जम्बूद्वीपलवणोदादयः । द्वीपाश्च समुद्राश्च द्वीपसमुद्रा यथासंख्यमभिसंबन्धः । जम्बूद्वीपादयो द्वीपा लवणोदादयः समुद्रा इति । किं नामानस्ते ? शुभनामानः । यानि लोके शुभानि नामानि तान्येषां नामानि तद्यथाजम्बूद्वीपो लवणोदः, धातकीखण्डः कालोदः, पुष्करवरः पुष्करोदः, वारुणीवरः वारुणोदः, क्षीरवरः क्षीरोदः, घृतवरः घृतोदः, इक्षुवर: इक्षूदः, नन्दीश्वरवरः नन्दीश्वरोद इत्येवमादयोऽसंख्येया
१ - बाहुल्या प्रा०, ब०, ६०, मु० । ३ मुखे । ४- पमवेदि- प्रा०, ब०, ब०, मु० । मा०, ब०, ब०, म० । ७ उदधिरिति ।
२२
Jain Education International
५
२ रुक्मं कार्तस्वरं जाम्बूनदमष्टापवोऽस्त्रियाम् - ता० टि० । ५ - मयमपरं पीठं ता० भ०, मू० । ६ सुरवनि
For Private & Personal Use Only
१५
२५
३०
www.jainelibrary.org