________________
१७० तत्त्वार्थवार्तिके
[३१८-६ द्वीपसमुद्राः स्वयम्भूरमणद्वीपस्वयम्भूरमणोदपर्यन्ताः । कियदसंख्येयाः ? अर्धतृतीयसागरोपमसमय संख्याः । अमीषां विष्कम्भसन्निवेशसंस्थानविशेषप्रतिपत्त्यर्थमाह
हिदिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥८॥ द्विद्विरिति वीप्साभ्यावृत्तिवचनं विष्कम्भद्विगुणत्वव्याप्त्यर्थम् ।। आद्यस्य द्वीपस्य यो विष्कम्भस्तद्विगुणो जलधिस्तद्विगुणविष्कम्भो द्वितीयो द्वीपः तद्विगुणविष्कम्भो द्वितीयो जलधिरिति द्वैगुण्यव्याप्त्यर्थ द्विद्वि रुच्यते । द्विद्विविष्कम्भो येषां ते द्विििवष्कम्भाः।
ननु च वृत्त्या अभ्यावृत्तिरुच्यते द्विर्दश द्विदशा इति, वीप्सा च क्वचिदुच्यते सप्तपर्ण इति, तद्वदिह वीप्साऽभ्यावृत्त्योवृत्त्योक्तवात् द्वित्वस्य सुचश्चाप्रयोगः प्राप्नोति? नैष दोषः; यत्र १० 'गम्यते न तत्र प्रयुज्यते, इह तु द्विविष्कम्भा इत्युक्ते तदर्थागतेद्विद्विरित्युच्यते ।
___ अनिष्टविनिवेशव्यावृत्त्यर्थ पूर्वपूर्वपरिक्षेपिवचनम् ।२। ग्रामनगरादिवदनिष्टविनिवेशो मा विज्ञायीति 'पूर्वपूर्वपरिक्षेपिणः' इत्युच्यते । तेनोत्तरोत्तरानन्तर्यसिद्धिर्भवति । पूर्व पूर्व परिक्षिपन्तीत्येवंशीलाः पूर्वपूर्वपरिक्षेपिणः, अत्राप्यगमकत्वाद् द्वित्वम् ।
चतुरस्रादिनिवृत्त्यर्थ वलयाकृतिवचनम् ।३। आकृतिस्संस्थानम्, वलयस्येवाकृतिर्येषां ते १५ वलयाकृतयः । एतेन चतुरस्रादिसंस्थानान्तरनिवृत्तिः कृता भवति । ततो मिथ्यावादिप्रणीतसंस्थानान्तरप्रतिकल्पना न तत्त्वम् ।
___ अत्राह जम्बूद्वीपस्य प्रदेशसंस्थानविष्कम्भा वक्तव्याः, तन्मूलत्वादितरविष्कम्भादिविज्ञानस्येति ? अत आहतन्मध्ये मेरुनाभिवृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥६॥
तच्छब्दः पूर्वद्वीपसमुद्र निर्देशार्थः ॥१॥ पूर्वोक्तानामसंख्येयानां द्वीपसमुद्राणां निर्देशार्थस्तच्छब्दो द्रष्टव्यः । तेषां मध्ये तन्मध्ये नाभिरिव नाभिः । मेरुर्नाभिर्यस्य स भवति मेरुनाभिः, वृत्त आदित्यमण्डलोपमानः । शतानां सहस्रं शतसहस्रं योजनानां शतसहस्रं योजनशतसहस्रम् योजनशतसहस्रं विष्कम्भो यस्य सोऽयं योजनशतसहस्रविष्कम्भः ।
तस्य परिक्षेपः त्रीणि शतसहस्राणि षोडशसहस्राणि द्वे शते सप्तविंशतिश्च योजनानाम्, २५ त्रीणि गव्यूतानि, शतं धनुषामष्टाविंशत्युत्तरम्, त्रयोदशाङगुलयः अर्धाङगुलं सातिरेकम् ।
तस्य समन्तात् परिक्षेत्री जगत्येका अर्धयोजनावगाहा अष्टयोजनोत्सेधा मूलमध्यान्तेषु द्वादशाष्टचतुर्योजनविष्कम्भा वज्रमयमूला वैडूर्यमयान्ता सर्वरत्ननिर्मितमध्या गवाक्षघण्टामुक्ताहममणिकिंकिणीकपद्मरत्नकनकरत्नसर्वरत्नजालनवभिरुपयु परिस्थितैः प्रत्येकमर्धयोजनोच्छायः
पञ्चधनुश्शतविष्कम्भजगतीसमायामैरलङकृता । तस्याः पूर्वदक्षिणापरोत्तरासु चतसषु दिक्ष १० विजयवैजयन्तजयन्तापराजितसंज्ञानि चत्वारि महाद्वाराणि । यथाक्रम तानि चतुर्योजनविष्क
म्भाण्यष्टयोजनोत्सेधानि विष्कम्भसमप्रवेशानि। तत्र विजयवैजयन्तयोरन्तरमेकान्नाशीतिसहस्राणि द्विपञ्चाशद्योजनान्यर्धयोजनं योजनचतुर्भागः अर्धगव्यूतं गव्यूतचतुर्भागः द्वात्रिंशच्च
१-समयसंख्येयाः १०। २ वारार्थ। ३ सजादेरप्रयोगेऽपि ज्ञायते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org