________________
३।१०]
तृतीयोऽध्यायः धनूषि तिस्रोऽङगुलयः अङगुलचतुर्भागोऽर्धाङगुलचतुर्भागश्च सातिरेकः । एवमितरेषामप्यन्तराणां प्रमाणं वेदितव्यम् ।। तत्र जम्बूद्वीपे षड्भिः कुलपर्वतैविभक्तानि सप्त क्षेत्राणि । कानि तानीति ? अत आह
भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥१०॥ भरत इति संज्ञा कुतः ?
भरतक्षत्रिययोगाद्वर्षो भरतः ॥१॥ विजयार्धस्य दक्षिणतो जलधेरुत्तरतः गङ्गासिन्ध्वो. बहमध्यदेशभागे विनीता नाम नगरी द्वादशयोजनायामा, नवयोजनविस्तारा। तस्यामत्पन्नः । सर्वराजलक्षणसंपन्नो भरतो नामाद्यश्चक्रधरः षट्खण्डाधिपतिः । अवसर्पिण्या राज्यविभागकाले तेनादौ भुक्तत्वात्, तद्योगाद्भरत इत्याख्यायते वर्षः ।
अनादिसंज्ञासंबन्धाद्वा ।२। अथवा, जगतोऽनादित्वादहेतुका अनादिसंबन्धपारिणामिकी १० भरतसंज्ञा। अथ क्व भरत इति ? अत्रोच्यते
हिमवत्समुद्रत्रयमध्ये भरतः ।३। हिमवतोऽद्रेस्त्रयाणां समुद्राणां पूर्वदक्षिणापराणां मध्ये भरतो वेदितव्यः । स पुनर्गङ्गासिन्धूभ्यां विजयार्थेन च षड्भागसंविभक्तः ।
कोऽसौ विजया? नाम ?
पञ्चाशद्योजनविस्तारस्तदर्घोत्सेधः सक्रोशषड्योजनावगाहो रजताद्रिविजया?ऽन्व- १५ र्थः ।। चक्रभृद्विजयार्धकरत्वाद्विजयाध इति गुणतः कृताभिधानो रजताद्रिः तस्य पञ्चाशद्योजनानि विस्तारः पञ्चविंशतियोजनान्युत्सेध: सक्रोशानि षड्योजनान्यवगाहः पूर्वापरकोटिभ्यामसौ पूर्वापरजलधी' स्पृशति । तस्य पूर्वापरपार्श्वबाहू चत्वारि योजनशतानि अष्टाशीत्यधिकानि षोड़श चैकानविंशतिर्भागाः योजनस्यार्धभागश्च सातिरेकः। विजया?त्तरपार्श्वज्या दशयोजनसहस्राणि सप्त च शतानि विंशतिर्योजनानां द्वादश चैकान्नविंशतिभागा योजनस्य कि- २० ञ्चिद्विशेषोनाः । अस्याः ज्यायाः धनुषः पृष्ठं दशयोजनानां सहस्राणि 'सप्त च शतानि त्रिचत्वा.. रिंशानि पञ्चदश चैकान्नविंशतिभागा योजनस्य सविशेषाः । विजयादक्षिणपार्श्वज्या नवसहस्राणि सप्तशतान्यष्टचत्वारिंशानि योजनानां द्वादशभागाः किञ्चिद्विशेषाधिकाः । अस्याः ज्यायाः धनुषः पृष्ठं नवसहस्राणि सप्तशतानि षषष्टयुत्तराणि योजनानामेकश्च भागः सविशेषः । तस्योभयोः पार्श्वयोरर्धयोजनविष्कम्भौ पर्वतसमानायामावर्धयोजनोच्छाय- २५ पञ्चधनुःशतविष्कम्भवनसमायामाभ्यां क्वचित्क्वचित्कनकस्तूपिकाभ्यामलङकृतबहुतोरणोपेतपद्मवरवेदिकाभ्यां प्रत्येक परिक्षिप्तौ सर्वर्तुजफलकुसुमतरुवरमण्डितौ वनषण्डौ। तस्य द्वे गुहे तमिस्रखण्डप्रपातसंज्ञे पञ्चाशद्योजनोदग्दक्षिणायाम प्राक्प्रत्यकद्वादशयोजनविष्कम्भे, अष्टयोजनोत्सेधोत्तरदक्षिणद्वारद्वये, सक्रोशषड्योजनविष्कम्भकोशबाहुल्याष्टयोजनोच्छायवज़मयकपाटे । यकाभ्यां चक्रवर्ती उत्तरभरतविजया याति । यतश्च गङ्गासिन्धू निर्गते । ३० तत्र चाभ्यन्तरे विजयाप्रभवे प्रत्येक द्विनद्यौ गङ्गासिन्धू अनुप्रविष्टे, उन्मग्नजला निमग्नजला चान्वर्थसंज्ञे । तृणादेः पतितस्य द्रव्यस्याहत्योपरितलप्रक्षेपणात् उन्मग्नजला। तथा तृणादेः पतितस्याधस्तलप्रक्षेपणात् निमग्नजला ।
१-ध्वोर्मध्य-श्र०। २ –ण्यां रा-श्र० । ३ -लधि स्प- प्रा०, ब०, ८०, मु०। -लनिधी स्प-ता०। ४ सप्तश-प्रा०, ब०, २०, म०। ५ -विष्कम्भपर्व-प्रा०, ब०,८०, मु०। ६-णायते प्रा-मा०, ब०, द०, मु०, ता० । ४ -टे याभ्यां प्रा०, ब०,८०, मु०।-पाटाभ्यां च-ता०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org