________________
१७२ तत्त्वार्थवार्तिके
[३३१० ___तस्यैवाने मितलाद्दशयोजनान्युत्प्लुत्योभयोः पार्श्वयोः दशयोजनविस्तारे पर्वतसमायामे द्वे विद्याधरश्रेण्यौ भवतः । तत्र दक्षिणश्रेण्यां रथनूपुरचक्रवालादीनि पञ्चाशद्विद्याधरनगराणि । उत्तरश्रेण्यां गगनवल्लभादीनि षष्टिविद्याधरनगराणि । तन्निवासिनो विद्याधरा भरतवत् षट्कर्मजीविनः केवलं प्रज्ञप्त्यादिविद्याधरणमात्रादेव विशिष्टाः । ततो दशयोजनान्युत्प्लुत्योभयोः पार्श्वयोर्दशयोजनविस्तारे पर्वतसमायाम द्वे व्यन्तरश्रेण्यौ भवतः । तत्र शक्रलोकपालानां सोमयमवरुणवैश्रवणानाम् आभियोग्यव्यन्तरदेवानां निवासा भवन्ति । ततः पञ्चयोजनान्युत्प्लुत्य शिखरतलं भवति दशयोजनविष्कम्भं पर्वतसमायामम् । तत्र प्राच्या दिशि षड्योजनक्रोशाधिकोच्छायविष्कम्भं सिद्धायतनकूटं पद्मवरवेदिकापरिवृतम् । तस्यो
पर्युदग्दक्षिणायाम प्राक्प्रत्यग्विस्तारं क्रोशायाम-क्रोशार्धविष्कम्भ-देशोनकोशोच्छायं पद्मवर१० वेदिकापरिवृतम् 'अर्हदायतनं पूर्वोत्तरदक्षिणद्वारम् अर्हदायतनवर्णनोपेतम् । तस्य पश्चाद्दक्षिणार्धभरतकूट-खण्डकप्रपातकूट-माणिकभद्रकूट-विजयार्धकूट-पूर्णभद्रकूट-तमिसृगुहाकूट-उत्तराधभरतकूट-वैश्रवणकटनामान्यष्टौ कटानि सिद्धायतनकटसमोच्छायविष्कम्भायामानि । तेषामुपरि दक्षिणार्धभरतदेव-वृत्तमाल्यदेव-माणिभद्रदेव-विजयाईगिरिकुमारदेव-पूर्णभद्रदेव-कृत
मालदेव-उत्तरार्धभरतदेव-वैश्रवणदेवानां यथाक्रमं प्रासादाः सिद्धायतनसमायामविष्कम्भो१५ च्छायाः । सोऽयं विजयापर्वतो नवभिः कूटर्मुकुटैरिवोद्गतै गिरिराजत्वं प्राप्त इवाभाति । अथ हैमवत इति कथं संज्ञा ?
हिमवतोऽदूरभवः सोऽस्मिन्नस्तीति वा हमवतः ।५। हिमवान्नाम पर्वतः तस्यादूरभवः सोऽस्मिन्नस्तीति वाऽणि सति हैमवतो वर्षः । क्व पुनरसौ ?
क्षुद्रहिमवन्महाहिमवतोर्मध्ये ।६। क्षुद्रहिमवन्तमुत्तरेण दक्षिणेन महाहिमवन्तं पूर्वापर२० समुद्रयोर्मध्ये हमवतः ।
तन्मध्ये शब्दवान् वृत्तवेदाढ्यः ।७। तस्य हैमवतस्य मध्ये शब्दवान्नाम पटहाकारः वृत्तत्वाद् वृत्तवेदाढ्य इत्यन्वर्थसंज्ञः योजनसहस्रोच्छाय: अर्धतृतीययोजनशतावगाह उपरि मूले च योजनसहस्रायामविष्कम्भस्तत्त्रिगुणसातिरेकपरिक्षेपः पर्वतः, अर्धयोजनविष्कम्भाद्रि
परिक्षेपायामयुक्तया पूर्वादिदिग्विभागविनिवेशिचतुस्तोरणविभक्तया पद्मवरवेदिकयाऽल२५ अकृतः । तत्तलमध्ये सक्रोशद्वयद्विषष्टियोजनोत्सेधः सक्रोशैकत्रिंशद्योजनविष्कम्भः स्वातिदेवविहारः । अथ कथं हरिवर्षसंज्ञा ? .
हरिवर्णमनुष्ययोगाद्धरिवर्षः ॥ हरिः सिंहस्तस्य शुक्लरूपपरिणामित्वात् तद्वर्णमनुष्याद्युषितत्वाद्धरिवर्ष इत्याख्यायते । क्व पुनरसौ ?
___ निषधमहाहिमवतोरन्तराले।९। निषधस्य दक्षिणतो महाहिमवत उत्तरतः पूर्वापर३० समुद्रयोरन्तराले हरिवर्षः ।
- तन्मध्ये विकृतवान् वृत्तवेदाढयः ॥१०॥ तस्य हरिवर्षस्य मध्ये विकृतवान्नाम' वृत्तवेदाढ्यः शब्दवद्वृत्तवेदाढयेन तुल्यवर्णनः । तस्योपर्यरुणदेवविहारः । अथ कथं विदेहसंज्ञा ?
विदेहयोगाज्जनपदे विदेहव्यपदेशः ।११। विगतदेहाः विदेहाः । के पुनस्ते? येषां देहो नास्ति, कर्मबन्धसन्तानोच्छेदात्' । ये वा सत्यपि देहे विगतशरीरसंस्कारास्ते विदेहाः। तद्यो
१ वक्ष्यमाणम् । २ हिमवतो द्वितीया चैनेनानं चेरिति द्वितीया ? ३ निवासः। ४-म वेदा१०, २०, मु०। ५-नोच्छित्तये वा प्रा०, ब०, द०, म०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org