________________
३२१०] तृतीयोऽध्यायः
१७३ गाज्जनपदे विदेहव्यपदेशः । तत्र हि मुनयो देहोच्छेदार्थ यतमाना विदेहत्वमास्कन्दन्ति । ननु च भरतैरावतयोरपि विदेहाः सन्ति ? सत्यम्, सन्ति कदाचिन्न तु सर्वकालम्, तत्र तु सततं धर्मोच्छेदाभावाद्विदेहाः सन्तीति प्रकर्षापेक्षो विदेहव्यपदेशः । क्व पुनरसौ ?
निषधनीलवतोरन्तराले तत्सन्निवेशः ।१२। निषधस्योत्तरात् 'नीलवतो दक्षिणात् पूर्वापरसमुद्रयोरन्तरे तस्य विदेहस्य सन्निवेशो द्रष्टव्यः ।
स चतुर्विधः पूर्वविदेहादिभेदात् ।१३। स विदेहश्चतुर्विधः । कुतः ? पूर्व विदेहादिभेदात्।। पूर्वविदेहः, अपरविदेहः, उत्तरकुरवः, देवकुरवश्चेति । कुतः पुनः पूर्वविदेहादिव्यपदेश: ? मेरो: प्राक् क्षेत्र पूर्व विदेहः, 'उत्तरक्षेत्रमुदक्कुरवः, अपरक्षेत्रमपरविदेहः दक्षिणक्षेत्रं देवकुरव इति ।
नैष युक्तो व्यपदेशः-पूर्वविदेहे हि सविता नीलादुदेति, निषधेऽस्तमुपैति । तत्र प्राङ १० नील: प्रत्यङ निषवः अपाक् समुद्रः, मेरुरुदक् । अपरविदेहे तु निषधे उदयः नीलेऽस्तमय इति । तत्र प्राङ निषधः, प्रत्यङ नील:, अपाक् समुद्रः, उदङ मेरुः । उदक्कुरुषु गन्धमादनादुदयो माल्यवतोऽस्तमयः । तत्र गन्धमादनः प्राक्, माल्यवान् प्रत्यक्, नील: अपाक्, मेरुः उदक् । देवकुरुषु सौमनसादुदयः विद्युत्प्रभेऽस्तमयः तत्र सौमनसः प्राक्, विद्युत्प्रभः प्रत्यक्, निषधोऽपाक मेरुरुदगिति ? सत्यमेवमेतत् ; यदि तत्रत्यो दिग्विभाग आश्रियेत । इह भरत- १५ क्षेत्रदिग्विभागमाश्रित्य मेरोः पूर्वादिव्यपदेशो युक्तः । तत्र विदेहमध्यभागे मेरुः । तस्मादपरोत्तरदिशि गन्ध'मालिविजयसमीपदेवारण्यात्प्राक् गन्धमादनाख्यो वक्षारपर्वतः उददक्षिणा'यतः प्राक्प्रत्यविस्तीर्णः दक्षिणोत्तरकोटिभ्यां मेरुनीलाद्रिस्पर्शी द्वाभ्यामर्धयोजनविष्कम्भपर्वतसमायामाभ्यां वनषण्डाभ्यामलङकृतः मूलमध्याग्रेषु सुवर्णमयः नीलाद्रि पर्यन्ते चतुर्योजनशतोच्छितः, योजनशतावगाहः प्रदेशवृद्धया वर्धमानः मेरुपर्यन्ते पञ्चयोजनशतोत्सेध: २० पञ्चविंशतियोजनशतावगाहः, पञ्चयोजनशतविष्कम्भः, ततः प्रदेशहान्या हीयमानः नीलान्तेऽर्धतृतीययोजनशतविष्कम्भः । त्रिंशत्सहस्राणि द्वे च नवोत्तरे शते योजनानां षट्चैकान्नविशंतिभागाः सातिरेका आयामः । तस्योपरि मेरुपर्यन्ते 'पञ्चविंशतियोजनशतोच्छायमूलविष्कम्भसिद्धायतनकूटम् । तस्योत्तरतः क्रमेण व्यवस्थितानि षट् कूटानि-गन्धमादन-उदक्कुरुगन्धमालि-स्फटिक-लोहिताक्ष-आनन्दकूटनामानि । तत्र सिद्धायतनकूटे जिनायतनम् । स्फटिक- २५ कूटस्योपरि प्रासादे भोगंधरी देवी पल्योपमस्थितिका। लोहिताक्षकूटस्योपरि प्रासादे पल्योपमस्थितिका दिक्कुमारी भोगवती वसति । शेषेषु चतुर्यु कूटेषु 'कूटसमनामानो देवा वसन्ति । मेरोरुदक् प्राच्यां दिशि नीलादपाच्यां कच्छविजयात् प्रतीच्यां माल्यवान् वक्षारपर्वतः । मूलमध्याग्रेषु वैडूर्यमयः विष्कम्भायामोच्छायावगाहसंस्थानैर्गन्धमादनेन समः । तस्योपरि मेरुपर्यन्ते सिद्धायतनकूटं यथोक्तपरिमाणम् । तस्योपर्यहदायतनम् । तस्योत्तरतो यथाक्रमं माल्यवत्-उदक्कुरु-कच्छ-विजय-सागर-रजत-पूर्णभद्र-सीता-हरिमहाकूटानि नव भवन्ति । सागरकूटे सुभागा दिक्कुमारी, रजतकूटे भोगमालिनी दिक्कुमारी वसति । शेषेषु
-१ नीलस्य द-श्र०।२-रं क्षे- प्रा०, ब०, द०, मु० । ३ -धमालिनीविषयसमी-पा०, ब०, द०, म०। ४-णायामः प्रा०, ब०, द०, मु०, ता०। ५ समीपे। ६ अधिक । ७ भोगावती- आ०, ब०, मु०। भोगावसति द०। ८ स्वकूटता-मु०। ६ विषयात प्रा०, ब०, द०, म०। १० सुभगा मा०, ब०, द, मु०, ता० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org