________________
१७४
तत्त्वार्थवार्तिके
[ ३१०
सप्तसु कटेषु कूटसमनामानो देवा वसन्ति । मेरोरुदक् गन्धमादनात्प्राक्, नीलादपाक् माल्यवतः प्रत्यक्, उदक्कुरवः प्राक् प्रत्यगायताः, उदगपाग्विस्तीर्णा यमकाद्रिद्वयपञ्चसरोवकाञ्चनगिरिशतोपशोभिताः । एकादश सहस्राणि अष्टौ शतानि द्वाचत्वारिंशानि योजनानां द्वौ चैकान्नविंशतिभागौ उदक्कुरुविष्कम्भः । नीलसमीपे त्रिपञ्चाशद्योजन सहस्राणि ज्याषष्टि५ सहस्राणि चत्वारि शतानि अष्टादशानि योजनानां द्वादश चैकान्नविंशतिभागाः साधिका धनुः ।
तत्र सीतायाः प्राग्दिग्भागे जम्बूवृक्षो वर्णितः । तस्योत्तरस्यां दिशि शाखायामर्हदायतनं. क्रोशायामार्धक्रोशविष्कम्भदेशोनक्रोशोनक्रोशोत्सेधम् । प्राच्यां दिशि शाखायां तत्तुल्यप्रासादः, तत्र जम्बूद्वीपाधिपतिव्यन्तरेश्वरोऽना' वृतनामा वसति । दक्षिणस्यां दिशि शाखायां १० प्रतीच्यां च प्रासादयोः शयनीयानि रमणीयानि । ततः पूर्वोत्तरोत्तरापरोत्तरासु दिवा' वृतदेव सामानिकानां चत्वारि जम्बूसहस्राणि । दक्षिणपूर्वस्यां दिशि अभ्यन्तरपरिदेवानां द्वात्रिंशत्सहस्राणि । दक्षिणस्यां मध्यमपरिषदेवानां चत्वारिंशत्सहस्राणि । दक्षिणापरस्यां दिशि बाह्य परिषद् देवानामष्टचत्वारिंशत्सहस्राणि । प्रतीच्यामनीकमहत्तराणां उप्तानां सप्तजम्ब्वः, चतसृणामग्रमहिषीणां सपरिवाराणां जम्ब्वः चतस्रः । पूर्वदक्षिणा१५ परोत्तरासु षोडशसहस्रात्मरक्षदेवानां च षोडशसहस्राणि । एते सुदर्शनजम्बूवृक्षस्य परिवारभूताः पूर्वोक्ताष्टशतेन सह समुदिताः एकं शतसहस्रं चत्वारिंशत्सहस्राणि शतं चैकान्नविशम् । त एते सर्व एव जम्बूवृक्षाः पद्मत्ररवेदिकापरिवृताः सर्वरत्नकाञ्चनपरिणामाः मुक्तामणिमघण्टा जालमाल्यदामध्वजपताकाछत्राधिच्छत्रविभूषिताः । सुदर्शनाख्यौ जम्बूवृक्षः पद्मवरवेदिकापरिक्षिप्तैस्त्रिभिर्वनषण्डैः परिक्षिप्तः । प्राथमिकवनषण्डे चतसृषु २० दिक्षु कोशायामक्रोशार्धविष्कम्भदेशोनक्रोशोत्सेधानि चत्वारि भवनानि । विदिक्षु चतस्रः पुष्करिण्यो दशयोजनावगाहाः पञ्चाशद्योजनायामाः तदर्धविष्कम्भाः चतुष्कोणा आयतचतुरस्राः शुचिसुरभिसलिलपूर्णाः । तेषां भवनानां पुष्करिणीनां चाष्टासु दिक्षु श्वेतान्यर्जुनसुवर्णनिर्वृत्तानि प्रत्येकमष्टौ कूटानि । तेषामुपरि प्रत्येकं कोशायामकोशार्ध विष्कम्भदेशोनकोशोच्छायाः चत्वारः प्रासादाः ।
नीलाद् दक्षिणस्यां दिश्येकं योजनसहस्रं तिर्यगतीत्य सीतामहानद्या उभयोः पार्श्वयोः पञ्चयोजनशतान्तरौ सप्रणिधी द्वौ यमकाद्री योजनसहस्रोच्छ्रायौ अर्धतृतीययोजनशतावगाह मूलमध्याग्रेषु योजनै सहस्रार्धाष्ट 'मयोजनशतपञ्चयोजनशतविष्कम्भौ । तयोरुपरि योजनद्विषष्ट्यर्धयोजनच्छायो सक्रोशैकशिद्योजन विष्कम्भौ तावत्प्रवेशौ प्रासादौ । तत्र यमकनामानौ देवौ वसतः । प्राच्यां दिशि द्वे अर्हदायतने यमकाभ्यामवाक्पञ्चयोजनशतानि ३० तिर्यगतीत्य सीतामहानद्यां" योजनसहस्रो दगपागायतः पञ्च योजनशतप्राक्प्रत्यग्विष्कम्भः दशयोजनावगाहः नीलो नाम महाह्रदो भवति । हृदमध्ये जलस्योपर्यर्धयोजनोच्छ्रायाणि दशयोजनावगाहनालानि मध्ये योजनविष्कम्भाणि क्रोशायतपत्राणि द्विक्रोश कर्णिकान्याग्रमूलयोद्विकोशविस्तराणि पद्मानि पद्महृदजपद्मवर्णनोपेतानि । तत्र नीलसंज्ञो नागेन्द्रकुमारो वसति । तस्य पद्मानि जम्बूवृक्षसमसंख्यानि ।
२५
।
१ - नावृतना- ता० भ० । -नावृतो ना- मू० ३ - नादूतदेव - श्र० । ४ - त्रादि त्रयभू- प्रा०, ब०, द०, मु० । ता० । ६ ७५० । ७ - नद्याः यो - प्रा०, ब०, द०, मु० ।
२ ऐशानोत्तरवायव्येषु मिलित्वा । ५ दशवशयो- प्रा०, ब०, ६०, मु०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org