________________
तृतीयोऽध्यायः
१७५
१०
नीलहदात्प्रागद्रे दश काञ्चनाद्रयः सप्रणिधयो योजनशतोत्सेधाः पञ्चविंशतियोजनावगाहाः मूलमध्याग्रेषु शतपञ्चसप्ततिपञ्चाशद्योजन विष्कम्भाः काञ्चनपरिणामाः । तेषामुपरि सक्रोशैकत्रिंशद्योजनोत्सेधाः 'सद्विकोशपञ्चदशयोजनविष्कम्भाः प्रासादाः काञ्चनसंज्ञदेवानामावासाः । तादृशा एव प्रत्यक्- दशकाञ्चनाद्रयः । नीलहदादपाक् पञ्चयोजनशतानि तिर्यगतीत्योत्तरकुरुहृदो भवति उत्तरकुरुसंज्ञनागेन्द्रकुमारावासः । नीलह्रदतुल्यवर्णनः, प्राक्प्रत्यक् च दश दशकाञ्चनाद्रयः । उदक्कुरुहृदादपाक् पञ्चयोजनशतान्यतीत्य चन्द्र हृदः, चन्द्रनागेन्द्रकुमारावासः । पूर्ववत्काञ्चनाद्रयश्च । चन्द्रह्रदादपाक् पञ्च योजनशतानि तिर्यगतीत्यैरावतह्रदो भवति ऐरावतनागेन्द्रकुमारावासः । पूर्ववत्काञ्चनाद्रयश्च । ऐरावतहदादपाक् पञ्च योजनशतानि तिर्यगतीत्य माल्यवान्नाम हृदो भवति माल्यवान्नामनागेन्द्रकुमारावासः । पूर्ववत् काञ्चनाद्रयश्च । काञ्चनाद्विशते पूर्वदिग्विनिवेशि जिनायतनशतम् । मेरोरपाक् प्राच्यां दिशि मंगलावद्विजयात् प्रत्यक् निपधादुदक् सौमनसो नाम वक्षारगिरिः सर्वस्फटिकपरिणामः, गन्धमादनेन विष्कम्भायामोच्छ्रायावगाहसंस्थानैस्तुल्यः । तस्योपरि मेरुपर्यन्ते सिद्धायतनकूटमर्हदायतनालङ्कृतं पूर्वोक्तपरिमाणम् । तस्य दक्षिणतो यथाक्रमं सौमनस- देवकुरु-मङगलावत्-पूर्वविदेह कनक- "काञ्चनकवशिष्ठ- उज्ज्वलकूटान्यष्टौ गन्धमादन कूटसमानानि तत्र कनककूटस्योपरि प्रासादे सुवत्सा दिक्कुमारी, काञ्चनकूट- १५ स्योपरि प्रासादे वत्समित्रा दिक्कुमारी, शेषेषु स्वकूटनामानो देवाः मेरोरपाक् प्रतीच्यां दिशि निषेधादुदक् पद्मवद्विजयात् प्राक् विद्युत्प्रभो नाम वक्षारगिरिस्तपनीयपरिणामो गन्धमादनसमवर्णनः । तस्योपरि मेरुपर्यन्ते सिद्धायतनकूटमर्हदायतनालङ्कृतम् । तस्य दक्षिणतो यथाक्रमं विद्युत्प्रभ - देवकुरु पद्मवद्विजय- अपरविदेह-स्वस्तिक- शतज्वाल-सीतोदा- हरिनामान्यष्टौ कूटानि गन्धमादनकूटसमानि । तत्र पद्मवद्विजयकूटस्योपरि प्रासादे वारिषेणा नाम दिक्कुमारी, २० स्वस्तिक कूटस्योपरि प्रासादे बला नाम दिक्कुमारी, शेषेषु स्वकूटनामानो देवाः ।
मेरोरपाक् सौमनसात्प्रत्यक् निषधादुदक् विद्युत्प्रभात्प्राक् देवकुरवः । तेषां ज्याधनुरिषुगणना उत्तरकुरुगणनया व्याख्याता | मेरोर्दक्षिणापरस्यां दिशि निपधादुदक् सीतोदायाः प्रत्यक् विद्युत्प्रभात्प्राक् मध्ये सुप्रभा नाम शाल्मलिः सुदर्शनया जम्ब्वा व्याख्यातवर्णना । तस्या उत्तरशाखायामर्हदायतनम् । पूर्वदक्षिणापरासु शाखासु प्रासादेषु गरुत्मान् वेणुदेवो वसति । २५ तस्य परिवारः सर्वोऽनावृत' देवपरिवारेण तुल्यः । निषधादुदगेकयोजनसहस्रं तिर्यगतीत्य सीतायाः महानद्या उभयोः पार्श्वयोश्चित्रकूटविचित्रकूटी गिरी यमकपर्वताभ्यां तुल्यवर्णनौ । निषध- देवकुरु-सूर्य- सुरेश - विद्युत्प्रभ ह्रदाख्याः पञ्चह्रदाः उत्तरकुरुषु ह्रदैव्र्व्याख्यातवर्णनाः । काञ्चनगिरिशतं च तद्वदेव ज्ञेयम् ।
३।१० ]
सीतया महानद्या पूर्वविदेहो द्विधा विभक्तः उत्तरो दक्षिणश्चेति । तत्रोत्तरो भाग- ३० श्चतुर्भिर्वक्षारपर्वतैस्तिसृभिर्विभङ्गनदीभिश्च विभक्तोऽष्टधा भिन्नः अष्टाभिरच 'क्रधरैरुपभोग्यः । तत्र चित्रकूटः पद्मकूटो नलिनकूट : एकशिलश्चेति वक्षाराः, तेषामन्तरेषु ग्राहावतीहृदावती - पङ्कावती चेति विभङ्गनद्यः । तत्र चत्वारोऽपि वक्षारका दक्षिणोत्तरकोटिभ्यां
१ समानपङक्तयः । २ सक्रोश- श्रा०, ब०, द०, मु० । ३ पूर्ववत् कांचनाद्विशते पूर्वदिनिआ०, ब०, ८०, मु० । ४ कांचनविशिष्टो- प्रा०, ब०, द०, मु० । ५ - समानानि श्रा०, ब०, द०, मु०, ता० । ६ - नादुतदेव - श्र०, ता० । ७ - सुलस वि- प्रा०, ब०, ५०, मु० | ८ -भिश्च चक्रमू० प्रा० ब० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org