________________
तत्त्वार्थवार्तिके
१५
[३१० सीतानीलस्पृशो नीलान्ते चतुर्योजनशतोत्सेधाः योजनशतावगाहाः प्रदेशवृद्धया वर्धमानाः शीतानद्यन्ते पञ्चयोजनशतोत्सेधाः पञ्चविंशतियोजनशतावगाहाः अश्वस्कन्धाकाराः सर्वत्र पञ्चयोजनशतविष्कम्भाः। षोडशसहस्राणि पञ्चशतानि द्वानवत्यधिकानि योजनानां
द्वौ चैकानविंशतिभागौ तेषामायामः । तत्र चित्रकूटस्योपरि चत्वारि कूटानि-सिद्धायतन५ चित्र-कच्छविजय-सुकच्छविजयकूटाख्यानि। पद्मकूटस्योपरि चत्वारि कूटानि सिद्धायतन
पद्म-महाकच्छकच्छावद्विजयकूटाभिधानानि । नलिनकूटस्योपरि चत्वारि कूटानि सिद्धायतननलिन-नलिनावर्त लाङ्गलावर्तकूटसंज्ञानि । एकशिलस्योपरि चत्वारि कूटानि सिद्धायतनएकशिल-पुष्कल-पुष्कला वत्कूटनामानि। सर्वाण्येवैतानि हिमवदद्रिकूटतुल्यपरिमाणानि,
तद्गतार्हदायतनप्रासादतुल्यवर्णनजिनायतनप्रासादानि, सर्वत्र सीतान्ते सिद्धायतनकूटानि' १० इतरेषु कूटसमनामानो देवाः । तिस्रोऽपि विभङ्गनद्यः स्वतुल्यनामकुण्डेभ्यो विंशतियोजन
शतविष्कम्भायामेभ्यो वरवजतलेभ्यः सुवृत्तेभ्यः स्वतुल्यनामदेवीनिवासालङकृतदशयोजनद्विगव्यूतोच्छायषोडशयोजनविष्कम्भायामद्वीपोपेतेभ्यः नीलाद्रिनितम्बनिवेशिभ्यो निर्गताः । प्रभवे द्विक्रोशाधिकद्वादशयोजनविष्कम्भा गव्यूतावगाहाः, मुखे पञ्चविंशतियोजनशतविष्कम्भा दशगव्यूतावगाहाः, प्रत्येकमष्टाविंशतिनदीसहस्त्रपरिवृताः सीतां प्रविशन्ति ।
एतैविभक्ता अष्टौ जनपदाः कच्छ-सुकच्छ-महाकच्छ-कच्छकावत्-आवर्तलाङ्गलावर्तपुष्कल-पुष्कलावर्ताख्याः । तेषां मध्ये राजधान्य:-क्षेमा क्षेमपुरी अरिष्टा अरिष्टपुरी खङ्गा मञ्जूषा औषधिः पौण्डरीकिणी चेति नगर्यः। तत्र सीताया उदक नीलादपाक् चित्रकूटात्प्रत्यक् माल्यवत्समीपदेवारण्यात्प्राक् कच्छविषयः, चित्रकूटसमायामः द्वे सहस्र द्वे च शते त्रयोदशयोजनानां केनचिद्विशेषेणोने, प्राक्प्रत्यग्विस्तीर्णः । तस्य बहुदेशमध्यभागे विजयार्धनामा रजतगिरिः भरतविजयाधतुल्योच्छायावगाहविष्कम्भः कच्छविषयविस्तारसमायामः । तत्रोभयोविद्याधरश्रेण्यो:, प्रत्येकं पञ्चपञ्चाशनगराणि । व्यन्तरश्रेण्यो: ऐशानस्य देवराजस्य लोकपालानां सोमयमवरुणवैश्रवणानामाभियोग्यदेवनगराणि । प्राच्यसिद्धायतनादिकूटनवके च दक्षिणार्धकच्छोत्तरार्धकच्छकूटे वाच्ये । विजयार्धादुदक् नीलादपाक् 'सिद्धकूटाद् वृषभाद्रेश्च प्राक् चित्रकूटात् प्रत्यक् त्रिषष्टियोजनविष्कम्भायाम तत्रिगुणसातिरेकपरिक्षेपं दशयोजनावगाहं वरवजतलं गङ्गाकुण्डम् । अस्य बहुमध्यदेश'भावी द्वीपोऽष्टयोजनविष्कम्भायामो दशयोजनद्विगव्यतोच्छायः पद्मवरवेदिकाचतस्तोरणालङकृतः सूवत्तो गङ्गादेवीनिवासः । ततो दक्षिणतोरणाद्विनिःसृता अपाङमुखी भरतक्षेत्रगङ्गातुल्यविष्कम्भावगाहा विषयसमायामा विजयार्धखण्डप्रपातगहातोरणनिर्गता चतुर्दशनदीसहस्रपरिवारा गङ्गा महानदी सीता प्रविशति । विजयार्धादुदङ नीलादपाक् वृषभाद्रेः प्रत्यङ माल्यवत्समीपदेवारण्यात्प्राक् सिन्धुकुण्डं गङ्गाकुण्डतुल्यवर्णनं सिन्धूदेवीनिवासालङ्कृतम् । ततो विनिःसृता गङगातुल्या विजयातिमिस्रगुहान्तरान्निर्गता चतुर्दशनदीसहस्रपरिवारा सिन्धूर्महानदी सीतां प्रविशति । तत्र सीताया उदक् विजयार्धादपाक् गङगासिध्वोर्बहुमध्यदेशभाविनी क्षेमा नाम राजधानी। एवमितरे सप्तापि जनपदाः क्रमेण पूर्वदेशनिवेशिनो नेतव्याः ।
२५
१-शतविष्कम्भाः १०-भा०१। २-लावर्तक-पा०,०म०।३ सीतावर्तसि-पा०, ब०, २०, मु०। सीतार्तसि- मू०। ४ - नि तेषु प्रा०, ब०, २०, २०, मु०। ५ सिन्धूक- ता०, म०।६-देशभवोद्वी-पा०, ब,००, मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org