SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ ३१०] तृतीयोऽध्यायः १७७ लवणसमुद्रवेदिकायाः प्रत्यक् पुष्कलावत्याः प्राक् सीताया उदक नीलादपाक् देवारण्यं नाम वनम् । तस्य द्वे सहस्र नव च शतानि द्वाविंशतिर्योजनानां सीतामुखे विष्कम्भः । षोडशसहस्राणि पञ्चशतानि द्वानवत्यधिकानि योजनानां द्वौ चैंकान्नविंशतिभागी आयामः । सीताया अपाक् निषधादुदक् वत्सविषयात् प्राक् लवणसमुद्रवेदिकायाः प्रत्यक् पूर्ववद् देवारण्यम् । __ सीताया दक्षिणतः पूर्व विदेहश्चतुभिवक्षारपर्वतैस्तिसृभिश्च विभङगनदीभिविभक्तोऽष्टधा भिन्न: अष्टाभिश्चक्रधरैरुपभोग्यः । तत्र त्रिकूटो वैश्रवणकूट: अञ्जनः आत्माजनश्चेति वक्षाराः । तेषामन्तरेषु तप्तजला मत्तजला उन्मत्तजला चेति तिस्रो विभङगनद्यः । एतैविभक्ता अष्टौ जनपदा:-वत्सा-सुवत्सा-महावत्सा-वत्सवत्-रम्य-रम्यक - रमणीय - मङगलावत्याख्याः । तेषां मध्ये राजधान्यः- सुसीमा-कुण्डला-अपराजिता-'प्रभाकरी-अडकावतीपद्मावती-शुभा-रत्नसञ्चयावती नगर्यः । तेषु जनपदेषु द्वे द्वे नद्यौ रक्तारक्तोदासंज्ञे । १० एकैको विजयाधः । तेषां सर्वेषां विष्कम्भायामादिवर्णना पूर्ववद्वेदितव्या। वक्षारपर्वतेषु प्रत्येकं चत्वारि कूटानि सिद्धायतन-स्वनाम-पूर्वापरदेशनामानि । सीताया उत्तरतटे दक्षिणतटे च प्रतिजनपदं त्रीणि त्रीणि तीर्थानि मागध-वरदान-प्रभाससंज्ञानि। तानि समुदितानि अष्टचत्वारिंशत्तीर्थानि पूर्व विदेहे । सीतोदया महानद्या अपरविदेहो द्विधा विभक्तो दक्षिण उत्तरश्चेति । तत्र दक्षिणो १५ भागश्चतुभिर्वक्षारपर्वतैस्तिसृभिश्च विभङगनदीभिविभक्तोऽष्टधा भिन्नः, अष्टाभिश्चक्रधरैरुपभोग्यः । तत्र शब्दावत्-विकृतावत्-आशीविष-सुखावहसंज्ञाश्चत्वारो वक्षाराद्रयः । तेषामन्तरेषु क्षीरोदा-सीतोदा-स्रोतोऽन्तर्वाहिनी चेति तिस्रो विभङगनद्यः । एतैविभक्ता अष्टौ जनपदा:-पद्म-सुपद्म-महापद्म-'पद्मवत्-शङख-नलिन-कुमुद-सरिदाख्याः । तेषां मध्ये राजधान्य:-अश्वपुरी सिंहपुरी महापुरी विजयपुरी अरजा विरजा अशोका वीतशोका चेति २० नगर्यः। तेषु जनपदेषु द्वे द्वे नद्यौ रक्तारक्तोदासंज्ञे। एकैको विजयाश्चि। तेषां सर्वेषां विष्कम्भायामादिवर्णना पूर्ववद्वेदितव्या। वक्षारपर्वतेषु प्रत्येकं चत्वारि कूटानि सिद्धायतनस्वनामपूर्वापरदेशनामानि। देवारण्ये द्वे अपि पूर्ववद्वेदितव्ये। उत्तरो विभागश्चतुभिर्वक्षारपर्वतैस्तिसृभिविभङगनदीभिश्च विभक्तोऽष्टधा भिन्नः, अष्टाभिश्चक्रधरैरुपभोग्यः । तत्र चन्द्र-सूर्य-नाग-देवसंज्ञाश्चत्वारो वक्षारपर्वताः । तेषामन्तरेषु गम्भीरमालिनी फेनमालिनी मिमालिनी चेति तिस्रो विभङगनद्यः । एतैविभक्ता अष्टौ जनपदाः-वप्र-सवप्र-महावप्र-वप्रावत-वल्ग-सूवल्ग-गन्धिलणन्धिमालिसंज्ञाः। तेषां मध्ये राजधान्य:-विजया वैजयन्ती जयन्ती अपराजिता चक्रपुरी खड़गपुरी अयोध्या अवध्या चेति नगर्यः । तेषु जनपदेषु गङगासिन्धूसेंज्ञे द्वे नद्यौ। एकैको विजयाधश्च । तेषां सर्वेषां विष्कम्भायामादिवर्णना पूर्ववद्वेदितव्या। वक्षारपर्वतेषु प्रत्येकं चत्वारि कूटानि सिद्धायतन- ३० स्वनामपूर्वापरदेशनामानि । सीतोदाया अपि तीर्थानि सीताया इवाष्टचत्वारिंशत् ।। विदेहस्य मध्ये मेरुर्नवनवतियोजनसहस्रोत्सेधः । धरणीतले सहस्रावगाहः । दशसहस्राणि नवतिश्च योजनानां दश चैकादशभागा अधस्तलेऽस्य विस्तारः। एकत्रिंशत्सहस्राणि नवशतान्येकादश च योजनानि किञ्चिन्न्यूनानि अधस्तलेऽस्य परिधिः। दशसहस्राणि योज १ -वत्सवतीर- प्रा०, मु०। २ प्रभङ्करी ता०। ३ शब्दवत्- प्रा०, ब०, म०। ४ क्षारोवा म०, ता०। ५पद्मावत् प्रा०, ब०, म०। ६-गन्धिगन्धि- ता० । २३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy