________________
१७८ तत्त्वार्थवार्तिके
[२१० नानां भूतलेऽस्य विष्कम्भः । एकत्रिंशत्सहस्राणि षट्शतानि त्रयोविंशानि प्योजनानि किञ्चिन्न्यूनानि तत्रास्य परिधिः । स चतुर्वनः त्रिकाण्ड: त्रिश्रेणिः । चत्वारि वनानि भद्रसालवनं नन्दनं सौमनसं पाण्डुकवनं चेति। भूमितले भद्रसालवनं पूर्वापरदिशोविंशतियोजनसहस्राण्यायतम्, दक्षिणोत्तरदिशोरर्धतृतीययोजनशतान्यायतम्, एकया अर्धयोजनोच्छायपञ्चशतधनुर्विष्कम्भवनसमायामया बहुतोरणविभक्तया पद्मवरवेदिकया परिवृतम् ।
मेरोश्चतसृषु दिक्षु भद्रसालवने पद्मोत्तर-नील-स्वस्तिक-अञ्जन-कुमुद-पलाश-अवतंसरोचन-संज्ञान्यष्टौ कूटानि । एकैकस्यां दिशि द्वे द्वे कूटे भवतः । तत्र मेरोः प्रागुदक्कूले सीतायाः पद्मोत्तरकूटम् । मेरोः प्राक् अपाक्कूले सीतायाः नीलकूटम् । मेरोरपाक् सीतोदाया
प्राक्कूले स्वस्तिक कूटम् । मेरोरपाक् सीतोदाया प्रत्यक्कूले अञ्जनकूटम्। मेरो: १० प्रत्यक् सीतोदाया दक्षिणकूले कुमुदकूटम् । मेरो: प्रत्यक् सीतोदाया उत्तरकूले पलाशकूटम् ।
मेरोरुदक् सीतायाः प्रत्यक्कूले अवतंसकूटम् । मेरोरुदक् सीतायाः प्राक्कूले रोचनकूटम् । तान्येतानि सर्वाणि कूटानि पञ्चविंशतियोजनावगाहनानि योजनशतोच्छायाणि योजनशतमूलविस्ताराणि पञ्चसप्ततियोजनमध्यविष्कम्भाणि पञ्चाशद्योजनाप्रविस्ताराणि पद्मवरवेदिकापरिवृतानि । तेषामुपरि मध्यदेशभाजः सक्रोशैकत्रिंशद्योजनोत्सेधाः पञ्चदशयोजनद्विगव्यूतायामविष्कम्भा अष्टौ प्रासादाः । तेषु स्वकूटनामानः सोमयमवरुणवैश्रवणानां लोकपालानामाभियोग्या अनेकैरावतरूपविकरणसमर्थाः दिग्गजेन्द्रा देवा वसन्ति । तत्र पद्मोतरनीलस्वस्तिकाञ्जनंकूटेषु शकलोकपालानां भौमविहाराः। कुमुदपलाशावतंसरोचनकूटेषु ऐशानलोकपालानां भौमविहाराः। मेरो: प्राक् सीताया दक्षिणकूले भद्रसालवने अर्हदायतनम् । मेरोरपाक् सीतोदायाः प्राक्कूले अर्हदायतनम्। मेरो: प्रत्यक् सीतोदाया उदक्कूले अर्हदायतनम् । मेरोरुदक् सीतायाः प्रत्यक्कूले अर्हदायतनम् । चत्वार्यप्येतानि पञ्चसप्ततियोजनोच्छायाणि योजनशतोदक्दक्षिणायामानि, प्राक् प्रत्यक् पञ्चाशद्योजनविष्कम्भाणि, षोडशयोजनोच्छायतदर्धविष्कम्भतावत्प्रवेशप्रागुदग्दक्षिणद्वाराणि नानामणिकाञ्चनरजतपरिणामानि सहस्रजिह्वेनापि वर्णयितुमशक्यानि । यानि सहस्राक्षः
सहस्रमणां विस्तीर्य विलोकमानोऽपि सततं न तृप्तिमुपयाति । तेषां पुरस्ताद्योजन२५ शतायामतदर्धविष्कम्भसातिरेकषोडशयोजनोच्छाया मुखमण्डपाः। तेषां पुरस्ताद्योजन
शतायामतदर्धविष्कम्भसातिरेकषोडशयोजनोच्छायाः प्रेक्षागृहाः। तेषां पुरस्ताच्चतुःषष्टियोजनायामविष्कम्भास्तत्त्रिगुणसातिरेकपरिधयः स्तूपाः। तेषां पुरस्ताच्चत्यवृक्षपीठानि षोडशयोजनायामानि तदर्धविष्कम्भाणि तावदुत्सेधानि प्रत्येक चतुस्तोरणविभक्तानां पद्मवरवेदिकानां चतुर्विशत्या परिवृतानि । तेषां मध्ये सिद्धार्थनामकाः चैत्यवृक्षाः सिद्धार्थतीर्थकरप्रतिकृतिपवित्रीकृताः षोडशयोजनोच्छाय-चतुर्योजनोत्सेध-योजनविष्कम्भस्कन्धा द्वादशयोजनोच्छायतावद्बाहल्यविटपाः । तेभ्यः प्राक् नानामणिरत्नमयपीठनिवेशिनः षोडशयोजनोच्छायगव्यूतविष्कम्भायाममहेन्द्रध्वजाः। ततः प्राङ नन्दाख्याः पुष्करिण्यः योजनशतायामतदर्थविष्कम्भदशयोजनावगाहाः । अर्हदायतनमध्यदेशनिवेशिनः षोडशयोजनाया
मतदर्थविष्कम्भोच्छाया रत्नमया देवच्छन्दाः। तत्र पञ्चधनुःशतोत्सेधाः कनकमयदेहास्त३५ पनीयहस्तपादतलतालुजिह्वा लोहिताक्षमणिपरिक्षिप्ताङकस्फटिकमणिनयना अरिष्टमणिमय
३०
१-नि कि- ता०, १०, मू०। २-5
- ०, मू०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org