________________
३।१० ]
तृतीयोऽध्यायः
नयनतारका रजतमयदन्तवक्तयः विद्रुमच्छायाधरपुटा अञ्जनमूलमणिमयाक्षपक्ष्मभ्रूलता नीलमणिविरचितासिताञ्चिकेशाः प्रगृहीतसितविमलवरचामराग्रहस्तोभयपार्श्वस्थविविधमणिकनकविधृताभ रणालङ्कृतयक्षनाग मिथुनाः सुश्लिष्टाष्टसहस्त्र लक्षणव्यञ्जनाङकिता वैडूर्य दण्डमणिहेम मुक्ताजाला लङकृत रत्नशलाका शतकाञ्चनतुम्बबिम्बरजतच्छदछ 'त्राधिच्छत्रा भव्यजनस्तवनवन्दनपूजनाद्यर्हा अर्हत्प्रतिमा अनाद्यनिधना अष्टशतसंख्या विशिष्टगणर्वाणतगुणा अष्टशतकलश भृङ्गाराद्युपकरणपरिवारा वर्णनातीतविभवा मूर्ता इव जिनधर्मा विराजन्ते ।
१७९
१०
२०
ततो भूमितलात् पञ्चयोजनशतान्युत्प्लुत्य पञ्चयोजनशतविष्कम्भं मेरुसमायाममण्डलं पद्मवरवेदिकापरिक्षिप्तं वृत्तवलयपरिधि नन्दनवनम् । तत्र बाह्यगिरिविष्कम्भः नवसहस्राणि नव च शतानि चतुःपञ्चाशानि योजनानां षट् चैकादशभागाः । तत्परिधिरेकत्रिशत्सहस्राणि चत्वारि शतानि एकान्नाशीत्यधिकानि सातिरेकाणि योजनानाम् । 'अभ्यन्तरगिरिविष्कम्भोऽष्टौ सहस्राणि नवशतानि चतुःपञ्चाशानि योजनानां षट्चैकादश भागाः । तत्परिधि र 'ष्टाविंशतिसहस्राणि त्रीणि शतानि षोडशानि योजनानामष्टौ चैकादशभागाः । चतसृषु दिक्षु चतस्रो गुहाः - प्राच्यां दिशि मणिगुहा, अपाच्यां गन्धर्वगुहा, प्रतीच्यां चारणगुहा, उदीच्यां चन्द्रगुहा । ता एतास्त्रिशद्योजन विष्कम्भायामाः साधिकनवतियोजनपरिधयः पञ्चाशद्योजनावगाहाः । तासु यथासख्यं सोमयमवरुण कुबेराणां विहाराः । मेरोः पूर्वोत्तरदिशि नन्दनवने बलभद्रकूट योजनसहसोच्छ्रायं मूलमध्याग्रेषु योजनाष्ट योजनशतपञ्चयोजनशतविस्तारम् | तत्त्रिगुणसातिरेका परिधिः । तस्योपरि मन्दराधिपतेरावासाः । मेरोश्चतसृषु दिक्षु द्वे द्वे कूटे-प्राच्यां दिशि तावन्नन्दनमन्दिरे । अपाच्या निषधमवते । प्रतीच्यां रजतरुचके । उदीच्यां सागरचित्रवजे । अष्टावप्येतानि कूटानि पञ्च योजनशतोच्छ्रायानि मूलमध्याग्रेषु पञ्चशतपञ्चसप्तत्यधिकशतत्रयार्ध तृतीयशतयोजनविष्कम्भाणि । तेषामुपरि द्विषष्टियोजनद्विगव्यूतोच्छ्रायाः सक्रोशैकत्रिंशद्योजनविष्कम्भास्तावत्प्रवेशा एवाष्टौ प्रासादाः । तेषु मेघङकरी - मेघवती सुमेधा - मेघमालिनी- तोयन्धरा विचित्रा- पुष्करमाला अनिन्दितासंज्ञा अष्टो दिक्कुमार्यः यथाक्रमं परिवसन्ति । मेरोर्दक्षिणपूर्वस्यां दिशि उत्पलगुल्मा - नलिना - उत्पला - उत्पलोज्वलाख्याश्चतस्रो वाप्यः । दक्षिणापरस्यां भृङगा - भृङ्गनिभा - कज्जला-कज्जलप्रभाश्चतसूः पुष्करिण्यः । अपरोत्तरस्यां दिशि श्रीकान्ता श्रीचन्द्रा श्रीनिलया - श्रीमहिताश्चतस्रो वाप्यः । उत्तरपूर्वस्यां दिशि पद्मा पद्मगुल्मा कुमुदा- कुमुदप्रभाश्चतस्रो वाप्यः । ताः सर्वाः पञ्चाशद्योजनायामतदर्धविष्कम्भदशयोजनांवगाहाः चतुष्कोणा आयतचतुरस्राः । तासां मध्ये प्रत्येकमेकैकः प्रासादः द्विषष्टियोजनार्थ योजनोत्सेधः सगव्यूतिकत्रिशद्योजन विष्कम्भस्तावत्प्रवेशः । तत्र दक्षिणस्यां दिशि विदिशोः प्रासादाः शक्रस्य भौमविहाराः । उत्तरस्यां दिशि विदिशोरैशानस्य भौमविहाराः । मेरोश्चतसृषु दिक्षु नन्दनवने चत्वारि जिनायतनानि षट्त्रिंशद्योजनोत्सेधानि पञ्चाशयोजनायामतदर्धविष्कम्भाणि तावत्प्रवेशानि अष्टयोजनोच्छ्रायतदर्धविष्कम्भायाम प्रागुदगपाग्द्वाराणि अर्हदायतनवर्णनोपेतानि ।
२५
१ - विकच्छन्ना प्रा०, ५०, मु० । २ उभयपार्श्वमिलितसहस्त्रयोजनन्यून | ३ - रष्टवि- भ० । ४ - जलचराणां प्रा०, ब०, मु० । - जलेचराणां द० । ५ ष्टयो- आ०, ब०, ब०, मु० १६ - रेकपरिम० भ०, मू । -नप्राग्द्वार ब०, ब०। ७ -मप्राग्द्वाराणि प्रागुबगपाद्वाराणीत्यपि पाठः - मु० ॥
Jain Education International
For Private & Personal Use Only
५
१५
३०
www.jainelibrary.org