SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ १८० तत्त्वार्थवार्तिके [३३१० नन्दनात् समात् भूमिभागाद् द्विषष्टियोजनसहस्राणि पञ्चशतान्युत्प्लुत्य वृत्तवलयपरिधिपञ्चयोजनशतविष्कम्भं पद्मवरवेदिकापरिक्षिप्तं सौमनसवनम् । तत्र बाह्यगिरिविष्कम्भश्चत्वारि सहस्राणि द्वे शते द्वासप्ततिश्च योजनानामष्टौ चैकादशभागाः। तत्परिधिस्त्रयोदशसहसाणि पञ्चशतान्येकादशानि योजनानां षट्चैकादशभागाः। अभ्यन्तरगिरिविष्कम्भस्त्रीणि सहस्राणि द्वे शते द्वासप्ततिर्योजनानामष्टौ चैकादशभागाः । तत्परिधिर्दशसहस्राणि त्रीणि शतान्येकान्नपञ्चाशानि योजनानां त्रयश्चैकादशभागाः किञ्चिद्विशेषोनाः । बलभद्रकूटदिकुमारीकूटाष्टकहीनं सौमनसम् । षोडशात्र वाप्य:-नन्दनवापीसदृशायामविष्कम्भावगाहाः । तन्मध्यदेशे भवनानि पञ्चाशद्योजनायामतदर्धविस्तारपत्रिंशद्योजनोच्छायाणि। चतुर्दिशं चत्वार्यहदायतनानि अष्टयोजनोच्छिततदर्धविस्तारतावत्प्रवेशप्रागदगपारद्वाराणि जिनायतनवर्णनोपेतानि । सौमनसात्समाद् भूभागात् षट्त्रिंशत्सहसाण्यारुह्य योजनानि वृत्तवलयपरिधि पाण्डुकवनं चतुर्नवत्युत्तरचतुःशतविष्कम्भं पद्मवरवेदिकापरिवृतं चूलिका परीत्य स्थितम् । शिखरं मेरोरेकयोजनसहरूविष्कम्भम् । तत्परिधिस्त्रीणि सहस्राणि द्विषष्टयधिकं शतं योजनानां साधिकम् । पाण्डु कवनबहुमध्यदेशभाविनी चत्वारिंशद्योजनोच्छाया मूलमध्याग्रेषु द्वादशाष्टचतुर्यो१५ जनविष्कम्भा सुवृत्ता चूलिका । तस्याः प्राच्यां दिशि पाण्ड कशिला उदक्दक्षिणायामा प्राक् प्रत्यग्विस्तारा। अपाच्यां पाण्ड कम्बलशिला प्राक्प्रत्यगायामा उदग्दक्षिणविस्तारा । प्रतीच्या रक्तकम्बलशिला उदगपागायता प्राक्प्रत्यविस्तीर्णा । उदीच्या 'अतिरक्तकम्बलशिला प्राक्प्रत्यगायता उदगपारिवस्तीर्णा । तत्रार्जुनसुवर्णमयी पाण्ड कशिला । रजतपरिणामा पाण्ड कम्बलशिला। विद्रुमवर्णा रक्तकम्बलशिला। जाम्बूनदसुवर्णमयी 'अतिरक्तकम्बलशिला। ता एताश्चतस्रोऽपि पञ्चयोजनशतायामतदर्धविष्कम्भाश्चतुर्योजनबाहल्या अर्धचन्द्रसंस्थाना अर्घयोजनोत्सेधपञ्चधनुःशतविष्कम्भशिलासमायामैकपद्मवरवेदिकापरिवृताः श्वेतवरकनकस्तूपिकालडकृतचतुस्तोरणद्वारविराजिताः । तासामुपरि बहुमध्यदेशभावीनि पञ्चधनुःशतोत्सेधायामतदर्धविष्कम्भाणि प्राङमुखानि सिंहासनानि । पौरस्त्ये सिंहासने पूर्वविदेहजान् अपाच्ये भरतजान् प्रतीच्ये अपरविदेहजान् उदीच्ये ऐरावतजास्तीर्थकरान् चतुर्णिकायदेवाधिपाः सपरिवाराः महत्या विभूत्या क्षीरोदवारिपरिपूर्णाष्टसहसूकनककलशैरभिषिञ्चन्ति । अत्रापि षोडशपुष्करिण्यः पूर्ववद्वेदितव्याः । चूलिकायाश्चतसृषु महादिक्षु सक्रोशत्रयस्त्रिशद्योजनायामानि द्विगव्यूताधिकषोडशयोजनविष्कम्भाणि पञ्चविंशतियोजनोच्छायाणि योजनोसेघतदर्घविष्कम्भतावत्प्रवेश प्रागुदगपागद्वाराणि चत्वार्यहंदायतनानि ' अर्हदायतनवर्णनोपेतानि । भद्रसालवनभाविनि भूतले लोहिताक्षकल्पः परिक्षेपः । तत ऊर्ध्वमर्धसप्तदशयोजनसहसाण्यारुह्य द्वितीयः पद्मवर्णः । ततोऽप्यर्धसप्तदशयोजनसहसाण्यारुह्य तृतीयस्तपनीयवर्णः । ततोऽप्यर्घसप्तदशयोजनसहस्राण्यारुह्य चतुर्थो वैड र्यवर्णः । ततोऽप्यर्घसप्तदशयोजनसहस्राण्यारुह्य २५ १ -समभू-प्रा०, ब०, २०, म०। २ रण्डाकारस्य। ३ अत्रापि समरुन्द्रेणोच्छितिः ११०००, पुनः महानिरुत्सेषः २५०००, मिलित्वा ३६०००। ४ शेखरं मेरोः मा०, ब०, ब०, मु.। ५ तस्या मा०,१०, २०, मु.। ६ अतिरिक्त-मा०, ब, १०, मु० । ७-प्रागपागुवग्द्वाराणि प्रा०, २०, २०, १०, मू०, ता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy