________________
३१.] तृतीयोऽध्यायः
१८५ पञ्चमो' वज्रप्रभः । ततोऽप्यर्धसप्तदशयोजनसहस्राण्यारुह्य षष्ठो हरितालवर्णः । ततोऽप्यर्धसप्तदशयोजनसहस्राण्यारुह्य जाम्बूनदसुवर्णवर्णो भवति । अधोभूम्यवगाही योजनसहस्रायामः प्रदेशः पृथिव्युपलवालुकाशर्कराचतुर्विधपरिणामः। उपरि वैडूर्यपरिणामः प्रथमः काण्ड: सर्वरत्नमयः । द्वितीयः काण्डः जाम्बूनदमयः। तृतीयः काण्डरचूलिका वैडूर्यमयी । मेरुरयं त्रयाणां लोकानां मानदण्डः । अस्याधस्तलादधोलोकः । चूलिकामूलादूर्ध्वमूर्ध्वलोकः । 'मध्यप्रमाणः ५ तिर्यग्विस्तीर्णस्तिर्यग्लोकः । एवं च कृत्वा अन्वर्थनिर्वचनं क्रियते 'लोकत्रयं मिनातीति मेरुः'इति। ___ तस्य भूमितलादारभ्य आशिखरादैकादशिकी प्रदेशहानिः । एकादशसु प्रेदशेषु एकप्रदेशो हीयते । एकादशसु गव्यूतेषु एकगव्यूतं हीयते । एकादशसु योजनेषु एकयोजनं हीयते। एवं सर्वत्राशिखराद् भूमितलस्याधः एकादशिकी प्रदेशवृद्धिः-एकादशसु प्रदेशेषु एकः प्रदेशो वर्धते। एकादशसु गव्यूतेषु एकं गव्यूतं वर्धते । एकादशसु योजनेषु एकं योजनं वर्धते । एवं सर्वत्र १० आअधस्तलात् । अथ कथं रम्यकसंज्ञा ?
रमणीयदेशयोगाद्रम्यकाभिधानम् ।१४। यस्माद्रमणीयैर्देशैः सरित्पर्वतकाननादिभियुक्तः, तस्मादसौ रम्यक इत्यभिधीयते । अन्यत्रापि रम्यकदेशयोगः समान इति चेत् ; न; रूढिविशेषबललाभाद् गोशब्दवृत्तिवत् । अत एव संज्ञायां को विहितः । क्व पुनरसौ ?
नीलरुक्मिणोरन्तराले तत्सन्निवेशः ।१५। नीलादुदक् रुक्मिणोऽपाक् पूर्वापरसमुद्रयो- १५ रन्तराले तस्य रम्यकस्य सन्निवेशो द्रष्टव्यः ।
तन्मध्ये गन्धवान्वृत्तवेदाढयः ।१६। तस्य रम्यकस्य मध्ये गन्धवान्नाम वृत्तवेदाढ्यः शब्दवद्वृत्तवेदाढयेन तुल्यवर्णनः। तस्योपरि प्रासादे पद्मदेवो वसति । अथ कथं हैरण्यवतसंज्ञा?
हिरण्यवतोऽदूरभवत्वाद्धरण्यवतव्यपदेशः।१७। हिरण्यवान् रुक्मिनामा पर्वतस्तस्याऽदूरभवत्वाद्धरण्यवतव्यपदेशः । क्व पुनरसो ?
रुक्मिशिखरिणोरन्तराले तविस्तारः ॥१८॥ रुक्मिण उदक शिखरिणोऽपाक् पूर्वापरसमुद्रयोरन्तराले तस्य हैरण्यवतस्य विस्तारो वेदितव्यः ।
तन्मध्ये माल्यवान् वृत्तवेदाङयः।१९। तस्य हैरण्यवतस्य मध्ये माल्यवान्नाम वृत्तवेदाढयः . शब्दवद्वृत्तवेदाढयेन तुल्यवर्णनः। तस्योपरि प्रासादे प्रभासदेवो वसति ।
अथ कथमैरावतसंज्ञा ?
ऐरावतक्षत्रिययोगादरावताभिधानम् ।२०। रक्तारक्तोदयोः बहुमध्यदेशभाविनी अयोध्या । नाम नगरी । तस्यामुत्पन्न ऐरावतो नाम राजा तत्परिपालितत्वाज्जनपदस्यैरावताभिधानम्। क्व पुनरसो ?
शिलरिसमुद्रत्रयान्तरे तदुपन्यासः ॥२१॥ शिखरिणो गिरेस्त्रयाणां पूर्वापरोत्तरसमुद्राणां मध्ये तस्यैरावतस्य उपन्यासो वेदितव्यः । - तन्मध्ये पूर्ववद्विजयार्षः ॥२२॥ तस्यैरावतस्य मध्ये विजया! रजतगिरिः पूर्ववद्वेदि- .. तव्यः । यैविभक्तानि सप्तक्षेत्राणि व्याख्यातानि।
के पुनस्ते 'कथं वा व्यवस्थिता इति ? अत आह
१-मो नीलवर्णःत-मा०,००, मु०।२ मध्यमप्र-प्रा०, ब०,०म०। ३ एकादशप्रदेशवि: भा० २। ४-शम्बवत् १०, मू०। ५-सराणां समु-मा०, २०, २० म०। ६ कवं व्यमा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org