________________
१८२
तस्वार्थवार्तिके . . [३११ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो
__ वर्षधरपर्वताः ॥११॥ तानि विभजन्तीत्येवं शीला तद्विभाजिनः पूर्वापराभ्यामायताः पूर्वापरायताः पूर्वापरकोटिभ्यां लवणजलधिस्पर्शिन इत्यर्थः । तद्विभाजित्वादेव तेषां वर्षधरव्यपदेशोऽसंकरेण ५ भरतादिवर्षाणां धारणात्। कथं हिमवानिति संज्ञा ?
हिमाभिसंबन्धाद्धिमवद्व्यपदेशः।१॥ हिममस्यास्तीति हिमवानिति व्यपदेशः । अन्यत्रापि तत्सम्बन्ध इति चेत् ? रूढिविशेषबललाभात्तत्रैव वृत्तिः । क्वासौ हिमवानिति ? उच्यते
भरतहमवतयोः सोमनि स्थितः ।२। भरतस्य हैमवतस्य च सीमनि व्यवस्थितः क्षुद्रहिमवान् वेदितव्यः । कथं पुनरस्य 'क्षुद्र हिमवत्त्वम् ? महाहिमवदपेक्षया । सूत्रेऽनुक्तं कथं १० गम्यते इति चेत् ? महाहिमवत्प्रयोगादेव । सति हि क्षुद्रे महत्त्वमित्यर्थात् क्षुद्रत्वं गम्यते ।
स पञ्चविंशतियोजनावगाहः योजनशतोच्छायः योजनसहस द्विपञ्चाशद्योजनानां द्वादशैकानविंशतिभागाः तस्य विष्कम्भः । तस्योत्तरपार्वे ज्या चतुविंशतिसहस्राणि नवशतानि द्वात्रिंशानि योजनानामेकश्चैकानविंशतिभागो देशोनः । अस्या ज्याया धनुः पञ्चविंशति
सहस्राणि द्वे शते त्रिशच्चत्वारश्चैकानविंशतिभागाः साधिकाः । तस्य पूर्वापरपार्श्वबाहू १५ प्रत्येकं पञ्चसहसाणि त्रीणि शतानि पञ्चाशद्योजनानि पञ्चदश चैकान्नविंशतिभागाः
'साधिकोऽर्धभागश्च । तस्योपरि "प्राच्यां दिशि सिद्धायतनकूटं पञ्चयोजनशतोच्छ्रायमूलविष्कम्भं पञ्चसप्तत्यधिकशतत्रयमध्यविष्कम्भम् अर्धतृतीयशताग्रविष्कम्भम् । तत्रिगुणसातिरेकपरिधिः । तस्योपरि षट्त्रिंशद्योजनोच्छायं पञ्चाशद्योजनोद्गदक्षिणायामं पञ्चविंशतियोजनप्राक्प्रत्यग्विस्तारं तावत्प्रवेशमष्टयोजनोत्सेधतदर्धविष्कम्भं तावत्प्रवेशोदग्दक्षिणपूर्वद्वारमहदायतनम् । द्वारत्रये सातिरेकाष्टयोजनोच्छायपञ्चाशद्योजनायामतदर्धविष्कम्भास्त्रयो मुखमण्डपाः । सातिरेकाष्टयोजनोच्छायपञ्चाशद्योजनायामविष्कम्भाणि त्रीणि प्रेक्षागृहाणि । पौरस्त्यप्रेक्षागृहात् प्राक् स्तूपादयः पूर्वोक्ताः । चैत्यालयाभ्यन्तरवर्णना पूर्ववद्वेदितव्या। तेषां सर्वेषामेव परिक्षेत्री चतुस्तोरणद्वारविभक्ता पद्मवरवेदिका । ततः प्रतीच्यां दिशि दशकूटानि-हिमवद्भरतेलागङ्गा-श्री-रोहितास्या-सिंधु-सुरा-हेमवत-वैश्रवणकूटाभिधानानि ययाक्रमं वेदितव्यानि सिद्धायतनकूटतुल्यानि । तेषामुपरि प्रासादा दशैव सक्रोशद्वयद्विषष्टियोजनोत्सेधाः सक्रोशैकत्रिंशद्योजनविष्कम्भास्तावत्प्रवेशाः । तेषु स्वकूटनामानो देवा देव्यश्च वसन्ति । हिमवद्भरतहमवतवैश्रवणकूटेषु देवाः, इतरेष' देव्यः ।
अथ कथं महाहिमवत्संज्ञा?
महाहिमवति चोक्तम् ।३। किमुक्तम् ? हिमाभिसंबन्धाद्धिमवदभिधानम्, महांश्चासौ १० हिमवांश्च महाहिमवानिति, असत्यपि हिमे हिमवदाख्या इन्द्रगोपवत् । क्व पुनरसौ ? ।
हैमवतहरिवर्षयोविभागकरः।४। हैमवतादुदक् हरिवर्षादपाक् तयोविभागकरो महाहिमवान् वेदितव्यः । स द्वियोजनशतोच्छायः पञ्चाशद्योजनावगाहः, चत्वारि योजनसहसाणि द्वे च शते दशोत्तरे दश चैकानविंशतिभागाः तस्य विष्कम्भः । पूर्वापरपार्श्वबाहू प्रत्येक नव
१ क्षुद्रत्वम् प्रा०, बं०, २०, मु० । २ दिशतत्रि- श्र० । ३ साधिकार्षमा-प्रा०, ब०, २०, मु० । ४ प्रावीदिशि प्रा०, ब०, २०, मु०। ५ -गृहकाणि मा०, ब०, २०, मु., मू०, ता०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org