________________
३।११]
तृतीयोऽध्यायः
१६३
योजन सहस्राणि द्वे च शते षट्सप्तत्यधिके योजनानां नव चैकान्नविंशतिभागाः अर्धभागश्च साधिकः । तस्योत्तरपार्श्वे ज्या त्रिपञ्चाशद्योजनसहस्राणि नव च शतानि एकत्रिंशानि षट्चैकान्नविंशतिभागा' साधिकाः । तस्याः ज्याया धनुः सप्तपञ्चाशद्योजन सहस्राणि द्वे शते त्रिनवत्युत्तरे दश चैकान्नविंशतिभागाः साधिकाः । तस्योपर्यष्टौ कूटानि सिद्धायतनमहाहिमवत्-हैमवत-रोहित् हरि-हरिकान्ता हरिवर्ष-वैडूर्यकूटाभिधानानि क्षुद्रहिमवत्कूटतुल्यप्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्या एव । प्रासादेषु स्वकूटनामानो देवा देव्यश्च वसन्ति | अथ कथं निषधसंज्ञा ?
निषीधन्ति तस्मिन्निति निषेधः ॥५॥ यस्मिन् देवा देव्यश्च क्रीडार्थं निषीधन्ति स निषधः, पृषोदरादिपाठात् सिद्धः । अन्यत्रापि तत्तुल्यकारणत्वात्तत्प्रसङ्गः इति चेत् ? न; रूढिविशेषबललाभात् । क्व पुनरसौ ?
हरिविदेहयोमर्यादाहेतुः | ६ | हरिवर्षादुदक् विदेहादपाक् तयोर्मर्यादाहेतुर्निषध इत्याख्यायते । स चतुर्योजनशतोत्सेधः, योजनशतावगाहः, षोडशयोजनसहस्राण्यष्टौ च शतानि द्वाचत्वारिंशानि द्वौ चैकान्नविंशतिभागौ तस्य विष्कम्भः । पूर्वापरपार्श्वबाहू प्रत्येकं विंशतियोजनासहस्राणि पञ्चषष्ट्यधिकमेकं च शतं द्वो चैकान्नविंशतिभागौ अर्धभागश्च साधिकः । उत्तरपार्श्वज्या चतुर्नवतिसहस्राणि षट्पञ्चाशमेकं च योजनशतं द्वौ चैकान्नविंशतिभागौ १५ साधिकौ । तस्या धनुरेकं योजनशतसहस्रं चतुर्विंशतिसहस्राणि त्रीणि च शतानि षट्चत्वा रिशानि नव चैकान्नविंशतिभागाः साधिकाः । तस्योपरि नवकूटानि - सिद्धायतन- निषधहरिवर्ष- पूर्वविदेह-हरिधृत- सीतोदा-अपरविदेह-रुचकनामानि क्षुद्र हिमवत्कूटतुल्यप्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यश्च वसन्ति ।
अथ कथं नीलसंज्ञा ?
२०
नीलवर्णयोगानीलव्यपदेश: ॥७॥ नीलेन वर्णेन योगात् पर्वतो' नील इति व्यपदिश्यते । संज्ञा 'चाऽस्य वासुदेवस्य कृष्णव्यपदेशवत् । क्व पुनरसौ ?
विवेहर म्यकविनिवेश विभागों ॥८॥ स नीलाख्यः पर्वतः विदेहस्य रम्यकस्य च विनिवेशं विभजते । स निषेधेन व्याख्यातप्रमाणः । तस्योपरि नवकूटानि - सिद्धायतन- नील- पूर्वविदेहसीता-कीर्ति-"नरकान्ता-अपरविदेह रम्यक आदर्श ककूटसंज्ञानि क्षुल्लक हिमवत्कूटतुल्यप्रमा- २५ णानि । तेषामुपरि जिनायतनप्रासादाः तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यरच वसन्ति | अथ कथं रुक्मिसंज्ञा ?
।
रुक्मसद्भावाक्मीत्यभिधानम् |९| रुक्ममस्यास्तीति रुक्मीत्यभिधानम् । अन्यत्रापि तत्संभवाद् रूढिवशाद्विशेषे वृत्तिः, करिवत् । क्व पुनरसौ ?
१ -निच- भ० 1 २ - तोपि नी- भ० । ३ वास्य प्रा० द०, म० । ५ नारीका- प्रा०, ब०, ब०, मु० । ६ - रम्यकनरकान्ताबु - प्रा०, ब०, ६०, २०, भू० ।
५.
३०
रम्यक हैरण्यवतविवेककरः | १०| रम्यकस्य हैरण्यवतस्य च विवेकं करोत्यसौ । स महाहिमवता तुल्यप्रमाणः । तस्योपरि अष्टौ कूटानि - सिद्धायतन - रुक्मि- रम्यक' नारी-बुद्धिरूप्यकूल- हैरण्यवत-मणि-काञ्चनकूटाख्यानि क्षुद्र हिमवत्कूटतुल्यप्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यश्च व
अथ कथं शिखरिसंज्ञा ?
Jain Education International
१०
For Private & Personal Use Only
४ - शभा ४० ।
www.jainelibrary.org