SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १० "हरण्यवतैरावतसेतुबन्धः स गिरिः | १२ | हैरण्यवतस्यैरावतस्य च सेतुबन्ध इव स गिरिरवस्थितः क्षुद्रहिमवत्तुल्यप्रमाणः । तस्योपर्येकादश- कूटानि सिद्धायतन - शिखरि हैरण्य५. वत - रसदेवी रक्तावती श्लक्ष्णकूला-लक्ष्मी-'गन्धदेवी- ऐरावत-मणिकाञ्चनकूटनामानि क्षुद्रहिमवत्तुल्यप्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यश्च वसन्ति । तेषां वर्णविशेषप्रतिपत्त्यर्थमाह १५ तत्त्वार्थवार्तिके [ ३३१२-१५ शिखर सद्भावाच्छिखरीति संज्ञा । ११॥ शिखराणि कूटान्यस्य सन्तीति शिखरीति संज्ञायते । अन्यत्रापि तत्सद्भावे रुढिवशाद्विशेषे वृत्तिः शिखण्डिवत् । क्व पुनरसौ ? १८४ २० हेमार्जुनतपनीय बैडूर्यरजतहेममयाः || १२ || त एते हिमवदादयः पर्वता हेमादिमया वेदितव्याः । मयट् प्रत्येकं परिसमाप्यते । यथाक्रमं हिमवदादयः संबध्यन्ते । हेममयो हिमवान् चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लः । तपनीयमयो निषधः तरुणादित्यवर्णः । वैडूर्यमयो नीलः मयूरग्रीवाभः । रजतमयो रुक्मी शुक्लः । हेममयः शिखरी चीनपट्टवर्ण इति । षडपि चैते अद्रयः प्रत्येकं उभयपार्श्वगतार्धयोजनविष्कम्भादिसमायामाभ्यां बहुतोरणविभक्तैकपद्मवरवेदिकापरिवृतवनषण्डाभ्यामुपेताः । पुनरपि तद्विशेषणार्थमेवाह मणिविचित्र पाच उपरि मूले च तुल्यविस्ताराः || १३|| नानावर्ण प्रभावादिगुणोपेतैर्मणिभिर्विविधचित्राणि विचित्राणि, मणिविचित्राणि पावनि येषां त इमे मणिविचित्रपाश्वः । अनिष्ट संस्थाननिवृत्त्यर्थमुपर्यादिवचनम् |१| अनिष्टसंस्थान'स्य निवृत्त्यर्थमुपर्यादिवचनं क्रियते । चशब्दो मध्यसमुच्चयार्थः । य एषां मूलविस्तारः स उपरि मध्ये च तुल्यः । तेषां मध्ये लब्धास्पदा हदा उच्यन्ते पद्ममहापद्मतिगिञ्च कसारमहापुण्डरीकपुण्डरीका हदास्तेषामुपरि ||१४|| 'पद्मादिभिः सहचरणाद्धदेषु पद्मादिव्यपदेशः |१| पद्मं महापद्मं तिगिञ्छं केसरि महापुण्डरीकं पुण्डरीकमिति पद्मनामानि तैः सहचरणात् ह्रदेषु पद्मादिसंज्ञावृत्तिर्भवति । तेषां हिमवदादीनामुपरि यथाक्रमं ते ह्रदा वेदितव्याः । २५ तत्राद्यस्य संस्थानविशेषप्रतिपत्त्यर्थमाह प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो हदः ||१५|| प्राक् प्रत्यक् - योजनसहस्रायामः उदगपाक् पञ्चयोजनशतविस्तारः वज्रमयतलः विविधमणिकनकरजतविचित्रतटः श्वेतवरकनकस्तूपिकालङकृतचतुस्तोरणविभक्तार्धयोजनो १-क्ष्मी सुवर्णग- भा० २ ॥ ३ -यो येषां श्रा०, ब०, मु० । Jain Education International २ मयः प्र-- श्रा०, ब०, द०, म० । २-तनि- प्रा०, ब०, ६०, मु० । ४ एतद्वातिकं नास्ति श्र० । For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy