________________
३०१६-१८]
तृतीयोऽध्यायः त्सेधपञ्चधनुःशतविष्कम्भह्रदसमायामैकपद्मवरवेदिकापरिवृतः चतुर्दिग्गतचतुर्वनषण्डमण्डितः विमलस्फटिकमणिस्वच्छगम्भीराक्षयवारिः विविधजलजकुसुमपरिभ्राजितः शरदि प्रसन्नचन्द्रताराराजिविराजितपर्यन्तपरीतविचित्रपयोधरंपटलः, विपर्यस्तो नभोभाग इव विभाति पद्मनामा ह्रदः । तस्यैवावगाहप्रतिपत्त्यर्थमिदमुच्यते--
दशयोजनावगाहः ॥१६॥ अवगाहोऽधःप्रवेशो निम्नता। दशयोजनान्यवगाहोऽस्य दशयोजनावगाहः ।
तन्मध्ये योजनं पुष्करम् ॥१७॥ योजनप्रमाणं योजनम् 'क्रोशायामपत्रत्वात्, क्रोशद्वयविष्कम्भकणिकत्वाच्च योजनायामविष्कम्भम् । जलतलात क्रोशद्वयोच्छायनालं तावद्बहलपत्रप्रचयं वज़मयमूलमरिष्टमणिकन्दं रजतमणिमृणालं वैडूर्यसुप्रतिष्ठनालम् । तस्य बाह्यपत्रं तपनीय परिष्कृतम्, जाम्बूनदाभ्यन्तरदलं १० तपनीयकेसरं नानामणिविचित्रसुवर्णकर्णिकं पुष्करभवगन्तव्यं तदर्घोत्सेधैरष्टशतसंख्यैः पद्मः परिवृतम् । तस्मात् पूर्वोत्तरोत्तरापरोत्तरासु तिसृषु दिक्षु श्रियः सामानिकदेवानां चत्वारि पद्मसहस्राणि । दक्षिणपूर्वस्यां दिश्यभ्यन्तरपरिषदेवानां द्वात्रिंशत्पद्मसहस्राणि । दक्षिणस्यां मध्यमपरिषदेवानां चत्वारिंशत्पद्मसहस्राणि । दक्षिणापरस्यां बाह्यपरिषद्देवानामष्टचत्वारिंशत्पमसहस्राणि । अपरस्यां सप्तानामनीकमहत्तराणां सप्तपद्मानि । चतसृषु महादिक्षु १५ आत्मरक्षदेवानां षोडशपद्मसहस्राणि । तान्येतानि सर्वाणि परिवारपद्मानि तदर्घोत्सेधानि एक शतसहस्रं चत्वारिंशत्सहस्राणि शतं च 'पञ्चदशम् ।
इतरेषां ह्रदानां पुष्कराणां चायामादिज्ञापनार्थमाह. तद्विगुणद्विगुणा हदाः पुष्कराणि च ॥१८॥ स च तच्च ते, तयोद्विगुणा द्विगुणास्तद्विगुणद्विगुणाः ।
द्विगुणद्विगुणा इति द्वित्वं व्याप्त्यर्थम् ।। द्विगुणद्विगुणा इति द्वित्वम् उच्यते । किमर्थम् ? व्याप्त्यर्थम् । द्विगुणत्वेनोत्तरेषां व्याप्तिर्यथा स्यादिति । केन द्विगुणाः ? आयामादिना । पद्मह्रदस्य द्विगुणायामविष्कम्भावगाहो महापद्मह्रदः । महापद्महदस्य द्विगुणायामविष्कम्भावगाहस्तिगिञ्छह्रदः । पुष्कराणि च । किम् ? द्विगुणानि द्विगुणानि इत्यभिसम्बध्यते।
द्वित्वात्तयोबहुवचनाभाव इति चेत्, न; विवक्षितापरिज्ञानात् ।। स्यादेतत्-तयोह- दयोः पुष्करयोश्च द्वित्वाद् बहुवचनं नोपपद्यते इति; तन्न; किं कारणम् ? विवक्षितापरिज्ञानात् । आद्यन्ताभ्यां पद्मपुण्डरीकह्रदाभ्यां तुल्यप्रमाणाभ्यामन्ये ह्रदा दक्षिणत उत्तरतश्च द्वैगुण्येन निर्दिष्टा इति विवक्षितोऽत्रायमर्थः । अतो बहुवचनमपपद्यते । कथं पुनस्तच्छन्दे पूर्वनिर्दिष्टापेक्षे सत्यनिर्दिष्टार्थो गृह्यते ?
२०
१ प्रमाणयोजनपरिमाणसम्बन्धात् अभेदेन पुष्करमपि योजनशम्धेनोच्यते इत्यर्थः। २ कयं तत्पदनयोजनपरिमाणं कथ्यते इत्याशडकायामुपपत्तिमाह। ३-परिष्टप्तं भा० २।४ पञ्चाशत् प्रा०,०, मु०। ५-गुणाद्विगुणाः भ०, मू० । ६-प्तिः कथं स्या- ता०.१०, म०।
२४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org