________________
१८६
[११९
तत्त्वार्थवार्तिके बहुवचननिर्देशात्तद्ग्रहणम् ।३। वहुवचननिर्देशात्तस्य ग्रहणं विज्ञायते । बहुवचननिर्देशात् केसर्यादयः कथन्न गृह्यन्ते ?
व्याख्यानतो वक्ष्यमाणसंबन्धाच्चानिष्टनिवृत्तिः ।४। "व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहावलक्षणम्" [पात० महा० प्रत्या० सू० ६] इत्यनिष्टस्य निवृत्तिर्भवति । अथवा ५ वक्ष्यत एतत्-*"उत्तरा दक्षिणतुल्याः" [त० सू० ३।२६] इति तदभिसंबन्धाच्चेष्टसंप्रत्ययः कर्तव्यः । तद्यथा-महाहिमवत उपरि बहुमध्यदेशभावी महापद्मह्रदः, द्वियोजनसहस्रायामस्तदर्धविष्कम्भो विंशतियोजनावगाहः । तन्मध्ये जलतलाद् द्विक्रोशोच्छायं योजनबहलपत्रप्रचयं द्विकोशायामपत्रत्वाद् योजनायामणिकत्वाच्च द्वियोजनविष्कम्भं पुष्करम् । तत्परिवार
पद्मसंख्या पूर्वोक्तैव । निषधस्योपरि बहुमध्यदेशभाक् तिगिञ्छह्रदः चतुर्योजनसहस्राया. १० मस्तदर्धविष्कम्भः, चत्वारिंशद्योजनावगाहः । तन्मध्ये जलतलाद् द्विक्रोशोद्गमं द्वियोजन
बहलपत्रप्रचयं योजनायामपत्रत्वाद् द्वियोजनायतकर्णिकत्वाच्चतुर्योजनायामविष्कम्भं पुष्करम् । तत्परिवारपद्मसंख्या पूर्वोक्तैव । नीलस्योपरि बहुमध्यदेशभावी केसरिह्रदः तिगिञ्छह्रदतुल्यः पद्मानि च तत्तुल्यप्रमाणानि । रुक्मिण उपरि बहुमध्यदेशभाक् महापुण्डरीको ह्रदः महा
पद्मह्रदतुल्यः, पद्मानि च तद्गतपद्मप्रमाणानि । शिखरिण उपरि बहुमध्यदेशभावी पुण्डरीको १५ ह्रदः पद्मह्रदतुल्यः, पुष्कराणि च तद्गतपद्मप्रमाणानि ।
___ अत्र चोद्यते-तच्छब्दस्य यदि द्विगुणशब्देन वृत्तिः क्रियते द्वित्वं संघातस्य प्राप्नोति'। अथ कृतद्वित्वेन तच्छब्दस्य वृत्तिः क्रियते समुदायस्याऽसुबन्तत्वाद् वृत्तिन प्राप्नोति । वीप्सायां द्वित्वे सति 'वाक्यमेवावतिष्ठत इति ? नैष दोषः; तदित्ययं निपातः अपादानार्थे वर्तते ।
तद् द्विगुणा द्विगुणा ततो द्विगुणा द्विगुणा इत्यर्थः । २०
तन्निवासिनीनां देवीनां संज्ञाजीवितपरिवारप्रतिपादनार्थमाहतन्निवासिन्यो देव्यः श्रीहीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमास्थितयः
ससामानिकपरिषत्काः ॥१६॥ . तेषु पुष्करे कर्णिकामध्यमैकदेशविनिवेशिनः शरद्विमलपूर्णचन्द्रद्युतिहराः क्रोशायामक्रोशार्धविष्कम्भदेशोनक्रोशोत्सेधाः प्रासादाः तेषु निवसन्तीत्येवं शीला देव्यस्तनिवासिन्यः । २५ .
ध्यादीनामितरेतरयोगे द्वन्द्वः ।। श्रीश्च ह्रीश्च धृतिश्च कीर्तिश्च बुद्धिश्च लक्ष्मीश्च श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्य इतीतरेतरयोगलक्षणो द्वन्द्व ः। तेषु पद्मादिषु ह्रदेषु यथाक्रम देव्यः श्यादयो वसन्ति ।
स्थितिविशेषनिर्मानार्थ पल्योपमवचनम् ।२। देवीसामान्यस्थितौ विशेषनिर्ज्ञानार्थ पल्योपमस्थितय इत्युच्यते । पल्योपमा स्थितिरासां ताः पल्योपमस्थितय इति।
परिवारनिर्ज्ञानार्थ सामानिकपरिषत्कवचनम् ।३। परिवारप्रतिपत्त्यर्थ सामानिकपरिषद्ग्रहणं क्रियते । समाने स्थाने भवाः सामानिकाः *"समानस्य तदादेश्च" [जैनेन्द्रवा० ३।३।३५] इति ठञ् । सामानिकाश्च परिषदश्च सामानिकपरिषदः । अभ्यहितत्वात् सामानिकपदस्य पूर्वनिपातः । सह सामानिकपरिषद्भिर्वतन्ते इति ससामानिकपरिषत्काः । तेषां पद्मानि
१ चतत्तुल्यप्रमा- प्रा०, ब० व० मु०। २ तद्विगुणाः तद्विगुणा इति । ३ तयोद्विगुणा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org