SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १७ श२०-२२] तृतीयोऽध्यायः पूर्वनिर्दिष्टानि तन्मध्यवतिषु प्रासादेषु ते वसन्ति । यकाभिः सरिद्भिस्तानि क्षेत्राणि विभक्तानि ता उच्यन्तेगङ्गासिन्धूराहिद्रोहितास्याहरिद्धारकान्तासीतासीतादानारीनरकान्तासुवर्ण 'कूलारूप्यकुलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥२०॥ गङगादीनामितरेतरयोगे द्वन्द्वः । उदकस्य उदभाव उक्तः। सरितो न वाप्यः । ताः ५ किमनन्तरा उत समीपा इति ? अत आह-तन्मध्यगा इति। तेषां क्षेत्राणां मध्ये मध्येन वा गच्छन्तीति तन्मध्यगाः।। एकत्र सर्वासां प्रसङगनिवृत्त्यर्थ दिग्विशेषप्रतिपत्त्यर्थ चाह द्वयोईयोः पूर्वाः पूर्वगाः ॥२१॥ द्वयोर्द्वयोरेकक्षेत्रं विषयः इत्यभिसंबन्धादेका सर्वासां प्रसङगनिवृत्तिः ।। विकल्प्यो १० हि वाक्यशेषः । वाक्यं वक्तर्यधीनं (वक्त्रधीनम्) हीति इच्छातो वाक्यशेषप्रक्लुतेः, द्वयोर्द्वयोरेकक्षेत्र विषय इत्यभिसंबन्धात् सर्वासां सरिताम् एकस्मिन् क्षेत्रे प्रसङगो निवतितो भवति। पूर्वाः पूर्वगा इतिवचनं दिग्विशेषप्रतिपत्त्यर्थम् ॥२॥ तत्र पूर्वा याः सरितस्ताः पूर्वगाः । पूर्वसमुद्रं गच्छन्तीति पूर्वगाः। किमपेक्षं पूर्वत्वम् ? सूत्रनिर्देशापेक्षम् । यद्येवं गङगासिन्ध्वादयः सप्त पूर्वगा इति प्राप्तम् ? नैष दोषः; द्वयोर्द्वयोरित्यभिसंबन्धाद् द्वयोर्टयोः पूर्वाः १ पूर्वगा वेदितव्याः । ननु च ' द्वयोर्दयोरिति ग्रहणमन्यार्थमुक्तम् ? •"अन्यार्थमपि प्रकृतमन्यार्थ भवति" [पात० महा० १११।२२] । इतरासां दिग्विभागप्रतिपत्त्यर्थमाह-- शेषास्त्वपरगाः ॥२२॥ द्वयोर्द्वयोरवशिष्टा यास्ता अपरगा 'प्रत्येतव्या अपरं समुद्रं गच्छन्तीत्यपरगाः। २० तत्र पद्मह्रदप्रभवा पूर्वतोरणद्वारनिर्गता गडगा ।१३ क्षुल्लकहिमवत उपरि पद्मह्रदो वणितश्चतुस्तोरणद्वारमण्डितः । तत्र पूर्वतोरणद्वारेण निर्गता पञ्चयोजनशतानि प्राङमुखी गत्वा गङगाकूटं स्रोतसा आस्फाल्य पञ्चयोजनशतानि त्रयोविंशानि षट्चकानविंशतिभागान् अपाङमुखी गत्वा स्थूलमुक्तावलीव साधिकयोजनशतप्रमाणधाराप्रपाता सक्रोशषड्योजनविस्तारा योजनार्धबाहुल्या षष्टियोजनायामविष्कम्भे दशयोजनावगाहे वजूमयतले श्रीदेवीगृहप्रमाणप्रा- २५ सादमण्डितमध्ये सद्विक्रोशदशयोजनोच्छायाष्टयोजनायामविष्कम्भद्वीपालङकृतान्तरे कुण्डे पतिता। दक्षिणतोरणद्वारेण विनिःसृता अर्धगव्यूतावगाहा सक्रोशषड्योजनविस्तारा क्रमण वर्धमाना भुजङगकुटिलगामिनी खण्डकप्रपातगुहामुखेन विजया व्यतीत्य दक्षिणमुखा दक्षिणार्धभरतमध्यं प्राप्य प्राङमुखी सती मुखे सक्रोशयोजनावगाहा सार्धद्विषष्टियोजनविस्तारा लवणोदधि मागधतीर्थन प्राविशत् । ___ अपरतोरणद्वाराद्विनिर्गता सिन्धः ।२। पाश्चात्यतोरणद्वाराद्विनिर्गता पञ्चयोजनशतं गत्वा सिन्धूकूटं वीचीबाहू पगृहेनास्फाल्य गङ्गावसिन्धूकुण्डे पतिता तमिसगुहामुखागतेन विज १-नि निदि- प्रा०, ब०, द०, म० । २ -वर्णरूप्यकूला पा, ब०, ब०, २०, मु०, मू० ता० । ३ किमन्तरा प्रा०, प्रा०, २०, मु०, ता०। ४ -रेकैकक्षेत्र प्रा०, ता०। ५च-यवहयोयो- मा०, ब०,०, मु०। ६.वेदितव्याः प्रा०, ब०, २०, ता०, म०। ७ प्रालिङ्गनेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy