________________
१५
१८८ तस्वार्थवार्तिके
[३२२ या व्यतीत्य प्रभासतीर्थेनापरसमुद्रं प्राविक्षत् । तत्र गङ्गाकुण्डद्वीपप्रासादे गङ्गादेवी वसति । सिन्धूकुण्ड द्वीपप्रासादे सिन्धूदेवी वसति । हिमवत उपरि किञ्चित्प्राक् प्रत्यक् चातीत्य गङ्गासिन्ध्वोर्मध्ये द्वे पद्माकारे कूटे वैडर्यपरिणामनाले जलस्योपरि क्रोशमुच्छिते -क्रोशद्वयायामविष्कम्भे लोहिताक्षमणिमयार्धगव्यूतायतपत्रे तपनीयकेसरे अर्कमणि निवृत्तगव्यूतायतकणिके । तयोः कणिकयोर्मध्ये रत्नमयमेकैकं कूटम् । तत्र चैकैकः प्रासादः । प्राच्यकूटप्रासादे पल्योपमस्थितिका वला' नाम देवी वसति। प्रतीच्यप्रासादकूटे पल्योपमस्थितिका लवणा नाम देवी वसति ।
उदीच्यतोरणद्वारनिर्गता रोहितास्या ।। पद्महदस्यैव उदीच्यतोरणद्वारनिर्गता द्वे योजनशते षट्सप्तत्युत्तरे षट्चैकानविंशतिभागान् हिमवत उपरि उदङमुखी गत्वा गङगातुल्यायामधाराप्रपाता अर्धत्रयोदशयोजनविस्तारा योजनबाहल्या विंशतियोजनशतायामविष्कम्भे विंशतियोजनावगाहे वजतले श्रीदेवीगृहप्रमाणप्रासादमण्डितमध्ये सद्विक्रोशदशयोजनोच्छायषोडशयोजनायामविष्कम्भद्वीपालङकृतान्तरे कुण्डे पतिता। ततः कुण्डादुदीच्यतोरणद्वारेण निर्गता उदङमुखी शब्दवद्वत्तवेदाढ्यं प्रदक्षिणीकृत्यायोजनेनाप्राप्ता प्रत्यङमुखी सती प्रभवे क्रोशावगाहाऽर्धत्रयोदशयोजनविष्कम्भा मुखेऽर्धतृतीययोजनावगाहा पञ्चविंशतियोजनशतविष्कम्भा रोहितास्या अपरलवणोदधि प्राविशत् । रोहितास्याकुण्डप्रासादे रोहितास्या देवी वसति ।
महापद्मह्रदप्रभवाऽपाच्यतोरणद्वारनिर्गता रोहित् ।४। महाहिमवत उपरि महापद्मह्रदादपाच्यतोरणद्वारेण निर्गता षोडशयोजनशतानि पञ्चोत्तराणि पञ्चैकानविंशतिभागान् अपागागम्य पतितेत्यादि रोहितास्यया तुल्यम् । अयं तु विशेषः-साधिकद्वियोजनशतायामधारा । रोहित्कुण्डप्रासादनिवासिनी रोहित् देवी। सा रोहिन्महानदी पूर्वार्णवं प्राविशत् ।
उदीच्यतोरणद्वारनिर्गता हरिकान्ता ।५। तत एव महापद्मह्रदादुदीच्यतोरणद्वारेण निर्गता हरिकान्ता नाम महानदी रोहिदिवाद्रितले गत्वा उदङमुखी साधिकद्वियोजनशतधाराप्रपाता द्वियोजनबाहल्या पञ्चविंशतियोजनविस्तारा श्रीदेवीगृहतुल्यप्रासादमण्डितमध्ये सद्विक्रोश'दशयोजनोच्छायद्वात्रिंशद्योजनायामविष्कम्भद्वीपालङकृतान्तरे चत्वारिंशद्योजनावगाहे चत्वारिशद्विशतयोजनायामविष्कम्भे वज़तले कुण्डे पतिता । ततः कुण्डादुदीच्यतोरणद्वारेण निर्गता "प्रभवेऽधयोजनावगाहा पञ्चविंशतियोजनविष्कम्भा विकृतववृत्तवेदाढयमर्धयोजनेनाप्राप्य प्रदक्षिणीकृत्य प्रत्यङमुखी सती मुखे पञ्चयोजनावगाहा अर्धतृतीययोजनशतविष्कम्भा पाश्चात्यार्णवं प्राविक्षत् । हरिकान्ताकुण्डप्रासादे हरिकान्तादेवी वसति ।
तिगिञ्छह्रवप्रभवा दक्षिणद्वारनिर्गता हरित् ।। निषधस्योपरि तिगिञ्छ ह्रदाद् दक्षिणतोरणद्वारेण विनिःसृता हरिन्महानदी सप्तसहसाणि चत्वारि शतान्येकविंशानि योजनानामेकं चैकानविंशतिभागमद्रितले प्राङमुखी गत्वा पतितेत्यादि सर्व हरिकान्तातुल्यम् । अयं तु विशेषः साधिकचतुर्योजनशतायामधारा। हरिकुण्डप्रासादनिवासिनी हरिदेवी । सा प्राच्यमदधि प्राविक्षत् ।
__उदीच्यतोरणद्वारविनिर्गता सीतोदा ७। तत एव तिगिञ्छह्रदादुदीच्यतोरणद्वारेण हरिदिवाद्रितले गत्वोदङमुखी साधिकचतुर्योजनशतधाराप्रपाता चतुर्योजनबाहल्या पञ्चाशद्यो
२०
२५
३०
, १ बला-श्र०। २-द्वारेण नि-प्रा०, ब०, २०, मु०। ३-मध्यसद्वि- ता०, १०, म । ४-कोशयोज-मु०, मू ता०, १०, २०, ज०, ब०भा०। ५ प्रवाहे प्र०, ब०, द०, मु०।६-तलं गमा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org