________________
શરર 1
तृतीयोऽध्यायः
१८९
जनविस्तारा श्रीदेवीगृहप्रमाणप्रासादमण्डितमध्ये' सद्विकोशदशयोजनोच्छ्रायचतुष्षष्टि योजनायामविष्कम्भद्वीपालङ्कृतान्तरे साशीतिचतुर्योजनशतायामविष्कम्भे अशीतियोजनावगाहे वजूतले कुण्डे पतिता । ततः कुण्डादुदीच्यतोरणद्वारेण निर्गता देवकुरुषु चित्रविचित्रकूटमध्ये नोदमुखी गत्वा अर्धयोजनेनाऽप्राप्ता मेरुं प्रदक्षिणीकृत्य विद्युत्प्रभं विदार्य अपरविदेहमध्यगामिनी, प्रभवे योजनावगाहा पञ्चाशद्योजनविस्तारा मुखे दशयोजनावगाहा पञ्चयोजनशतविस्तारा सीतोदा नाम महानदी पाश्चात्यसमुद्रं प्राविक्षत् । सीतोदाकुण्डप्रासादनिवासिनी सीतोदा देवी ।
केसरिदप्रभवाऽपाच्यद्वारनिर्गता सीता ।८। नीलस्योपरि केसरिहदादपाच्यतोरणद्वारेण निर्गता सीता महानदीत्यादि सर्व सीतोदातुल्यम् । अयं तु विशेषः सीताकुण्डप्रासादे सीतादेवी वसति । सा माल्यवन्तं विदार्य पूर्वविदेहमध्यगामिनी प्राच्यसमुद्रं प्राविक्षदिति ।
उदीच्यतोरणद्वार निर्गता नरकान्ता ।९। तत एव केसरिहदादुदीच्यतोरणद्वारेण निर्गता नरकान्ता महानदीत्यादि सर्व हरिता व्याख्यातम् । अयं तु विशेषः नरकान्ताकुण्डप्रासादे नरकान्ता देवी वसति । गन्धवद्द्वृत्तवेदाढचं प्रदक्षिणीकृत्य पाश्चात्यसमुद्रं प्राविक्षदिति ।
महापुण्डरीक ह्रदप्रभवा दक्षिण तोरणद्वार निर्गता नारी । १०। रुक्मिण उपरि महापुण्डरीकह्रदाद् दक्षिणतोरणद्वारेण निर्गता नारी महानदीत्यादि सर्वं हरि (नर) कान्तया व्याख्यातम् । १५ अयं तु विशेषः नारीकुण्डप्रासादे नारीदेवी वसति । गन्धवद्वृत्तवेदाढ्यं प्रदक्षिणीकृत्य पूर्वोदधिं प्राविशदिति ।
२०
उदीच्यदारनिर्गता रूप्यकूला |११| तस्मादेव महापुण्डरीकहदादुदीच्यतो रणद्वारेण निर्गता रूप्यकूला महानदीत्यादि सर्वं तु रोहिता व्याख्यातम् । अयं तु विशेषः रूप्यकूलाकुण्डप्रासादे रूप्यकूला देवी वसति । माल्यवद्वृत्तवेदाढ्यं प्रदक्षिणीकृत्य प्रतीच्यसमुद्रं प्राविक्षदिति । पुण्डरीक हदप्रभवापाच्यतोरणद्वारनिर्गता सुवर्णकूला | १२ | शिखरिण उपरि पुण्डरीकहदाद् दक्षिणतोरणद्वारेण निर्गता सुवर्णकूला महानदीत्यादि सर्व रोहितास्यया व्याख्यातम् । अयं तु विशेषः सुवर्णकुलाकुण्डप्रासादे सुवर्णकूला देवी वसति । माल्यवद्वृत्तवेदाढ्यं प्रदक्षिणीकृत्य प्राच्यमर्णवं प्राविक्षदिति ।
पूर्वतोरणद्वार निर्गता रक्ता | १३ | तस्मादेव पुण्डरीकह्रदात् पूर्वतोरणद्वारेण विनिर्गता २५ रक्ता महानदीत्यादि सर्व गङ्गया व्याख्यातम् । अयं तु विशेषः रक्ताकुण्डप्रासादे रक्तादेवी वसति ।
प्रतीच्यद्वारनिर्गता रक्तोदा | १४ | तस्मादेव पुण्डरीकह्रदात् प्रतीच्यतोरणद्वारेण विनिर्गता रक्तोदा महानदीत्यादि सर्व सिन्ध्वा वर्णितम् । अयं तु विशेषः रक्तोदाकुण्डप्रासादे रक्तोदा देवी वसति ।
१०
गङ्गासिन्धूरक्ता रक्तोदाः भुजङगकुटिलगतयः अन्यत्र गिरितलधाराप्रपाताभ्याम्, शेषा ऋजुगतयः अन्यत्र मेरुनाभि गिरिप्रदेशेभ्यः । चतुर्दशाप्येता अर्धयोजनविष्कम्भनदीसमायामाभ्यामुभयपार्श्वगताभ्यां प्रत्येक मर्धयोजनोत्सेधपञ्चधनुः शतविष्कम्भवनसमायामपद्मवरवेदिकाद्वयपरिवृताभ्यां वनषण्डाभ्यामलङ्कृताः ।
तासां परिवारप्रतिपादनार्थमाह
१ - मध्यस - ब० । २ णद्वारतोरण- ता०, अ०, आ०, ब० । ३ प्राविादि- श्रा० ब०, मु० ।
Jain Education International
For Private & Personal Use Only
३०
३५
www.jainelibrary.org