________________
१९० तत्त्वार्थवार्तिके
[१२३-२५ चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ॥२३॥ __गङगासिन्ध्वाधग्रहणं प्रकरणादिति चेत्, न; अनन्तरग्रहणप्रसङगात् ।। स्यान्मतम्गङगासिन्ध्वादिग्रहणमनर्थकम् । कुतः ? प्रकरणात् । प्रकृता हि ता इति; तन्न; किं कारणम् ?
अनन्तरग्रहणप्रसङ्गात् । “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा" [पात० महा० १।२।४७] ५ इति अपरगानामेव ग्रहणं स्यात् ।। ... गजगाविग्रहणमिति चेत्, न; पूर्वगाग्रहणप्रसङगात् ।२। अथ मतम्-गङगादिग्रहणमेवास्तु अनन्तरनिवृत्त्यर्थमिति; तच्च न; कस्मात् ? पूर्वगाग्रहणप्रसङगात्। गङ्गादयो हि पूर्वगा इति।
नदीग्रहणात् सिद्धिरिति चेत्, न; द्विगुणाभिसंबन्धार्थत्वात् ।। स्यादेतत्-नद्यः १० प्रकृतास्ततो नदीग्रहण मन्तरेणापि नदीसंप्रत्यये सिद्धे तद्ग्रहणं सर्वनदी संप्रत्ययार्थ भविष्यति
नार्थो गङगासिन्ध्वादिग्रहणेनेति ? तन्न; किं कारणम् ? द्विगुणाभिसंबन्धार्थत्वात् । द्विगुणा द्विगुणा इत्यस्याभिसंबन्ध इह कथं स्यादिति गङगासिन्ध्वादिग्रहणं क्रियते । कि गतमेतदनेन आहोस्विच्छब्दाधिक्या दर्थाधिक्यं गतमिति ? आह । कथम् ? द्विगुणानुवृत्ती
गङगाचतुर्दशनदीसहस्रपरिवृता तद्विगुणनीसहस्रपरिवारा सिन्धूरिति प्रसवते तन्निवृत्त्यर्थ १५ गङगासिन्धूग्रहणमिति । तत्र गङगासिन्ध्वी प्रत्येकं चतुर्दशनदीसहस्रपरिवृते। ततो द्विगुणा * द्विगुणाः परिवारनद्यो वेदितव्या आसीतोदायाः, ततः परतोऽर्धहीनाः ।
उक्तो जम्बूद्वीपविष्कम्भाम्भोनिधिह्रदसरित्पर्वतवर्षनिवेशक्रमः । इदमिदानी प्रक्रियतां किममूनि क्षेत्राणि तुल्यविस्ताराण्युत विस्तारविशेषोऽस्तीति ? अत आहभरतः षड्विंशपञ्चयोजनशतविस्तारः षट्चैकान्नविंशति
भागा योजनस्य ॥२४॥ षडधिका विंशतिः षड्विंशतिः षड्विंशतिरधिका येषु तानि षड्विंशानि पञ्चयोन्टनशतानि विस्तारोऽस्य षड्विंशपञ्चयोजनशतविस्तारो भरतः । किमेतावानेव ? नेत्याहषट्चैकान्नविंशतिभागा योजनस्य, विस्तारोऽस्येत्यभिसंबध्यते । ___ इतरेषां विष्कम्भविशेषप्रतिपत्त्यर्थमाह
तद्विगुणाद्वगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥२५॥ ततो द्विगुणो द्विगुणो विस्तारो येषां त इमे तद्विगुणद्विगुणविस्ताराः ।
वर्षधरशब्दस्य पूर्वनिपात आनुपूर्व्यप्रतिपत्त्यर्थः।। वर्षधरशब्दस्य पूर्वनिपातः क्रियते आनुपूर्व्यप्रतिपत्तिर्यथा स्यादिति । इतरथा हि वर्षधराश्च वर्षाश्चेति द्वन्द्वे वर्षशब्दस्य पूर्वनिपातः प्रसज्येत अल्पाच्तरत्वात् । न च लक्षणमस्ति आनुपूर्व्यप्रतिपत्त्यर्थः पूर्वप्रयोग: कर्तव्य इति ? सत्यं नास्ति कण्ठोक्तम्, ज्ञापकात्तु भवति *"लक्षणहेत्वोः क्रियाया" [जनेन्द्र ० २।२।१०४] इति ।
१-प्रत्ययसिद्धस्त- मु०। २ प्रतिपत्त्ययं प्रा०, ब०, मु०। ३ ज्ञातम् । ४ सूत्रमनर्थकमिति । ५प्रसक्तिः त-पा०, ब०, ता०, म०। ६ तथा सति । ७ पविशतिप- प्रा०, ब०, ता०. म० । ८ एवंविधम् । ९ इत्यत्र हेतुशब्दस्य पूर्वनिपातो न्याय्यः तं विहाय पानपर्व्यप्रतिपत्त्यर्थ लक्षणशब्दस्यकृतवान् । ततो ज्ञायते मानपूर्व्यप्रतिपत्त्यर्थः पूर्वप्रयोगः कर्तव्य इति लक्षणमस्तीति ।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org