SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ २२६-२७] तृतीयोऽध्यायः विदेहान्तवचनं मर्यादार्थम् ।२। विदेहः अन्तो येषां त इमे विदेहान्ता इति मर्यादा क्रियते । इतरथा हि नीलादयोऽपि द्विगुणद्विगुणविस्ताराः प्रसज्येरन् । तथाहि-हिमवतो विष्कम्भो द्विपञ्चाशमेकं योजनसहस्रं द्वादश चैकानविंशतिभागाः। हैमवतस्य द्वियोजनसहस्र पञ्चोत्तरशतं पञ्च चैकानविंशतिभागाः। महाहिमवतश्चत्वारि योजनसहस्राणि दशाधिके द्वे शते दश चैकानविंशतिभागाः। हरिवर्षस्याष्टौ योजनसहस्राणि चत्वारि शतानि एकविंशानि एकश्चैकानविंशतिभागः। निषधस्य षोडशयोजनसहस्राणि अष्टौ शतानि द्विचत्वारिंशानि द्वौ चैकानविंशतिभागौ। विदेहस्य त्रयस्त्रिशद्योजनसहस्राणि षट्शतानि चतुरशीत्यधिकानि चत्वारश्चैकानविंशतिभागाः । यद्येवं भरतादीनां विदेहान्तानां विस्तारक्रम उक्तः, अथोत्तरेषां कथमिति ? अत आह उत्तरा दक्षिणतुल्याः ॥२६॥ उत्तरा ऐरावतादयः नीलान्ता भरतादिभिर्दक्षिणेस्तुल्याः द्रष्टव्याः, अतीतस्य सर्वस्यायं विशेषो द्रष्टव्यः । ___ अत्राह-उक्तेषु भरतादिषु क्षेत्रेषु मनुष्याणां किं तुल्योऽनुभवादिः आहोस्वित्कश्चिदस्ति प्रतिविशेष इति ? अत आह भरतैरावतयोवृद्धिहासौ षट्समयाम्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥२७॥ ___ इमौ वृद्धिह्रासौ कस्य ? भरतरावतयोः । ननु ते क्षेत्रे व्यवस्थितावधिके कथं तयोर्वृद्धिह्रासौ ? अत उत्तरं पठति तात्स्थ्यात्ताच्छन्द्यसिद्धिर्भरतरावतयोर्वृद्धिह्रासयोगः ॥१॥ इह लोके तात्स्थ्यात्ताच्छब्धं भवति, यथा'गिरिस्थेषु वनस्पतिषु दह्यमानेषु गिरिदाह इत्युच्यते, तथा भरतरावतस्थेषु २० मनुष्येषु वृद्धिह्रासावापद्यमानेषु भरतैरावतयोर्वृद्धिह्रासावुच्यते ।। अधिकरणनिर्देशो वा २॥ अथवा भरतरावतयोरित्यधिकरणनिर्देशोऽयम्, स चाधेयमाकाङक्षतीति भरते ऐरावते च मनुष्याणां वृद्धिह्रासौ वेदितव्यो। किं कृतो पुनस्तो ? अनुभवायुःप्रमाणादिकृतौ वृद्धिह्रासौ ।३। अनुभवः उपभोगपरिभोगसम्पत्, आयुर्जीवितपरिमाणम्, प्रमाणं शरीरोत्सेध इत्येवमादिकृतौ मनुष्याणां वृद्धिह्रासौ प्रत्येतव्यो। " किं हेतुको पुनस्तौ ? 'कालहेतुको। स च कालो द्विविधः-उत्सपिणी अवसर्पिणी चेति। तद्भेदाः षट् प्रत्येकम् । अन्वर्थसंज्ञे चैते। अनुभवादिभिरवसर्पणशीला अवसर्पिणी।४। अनुभवादिभिः पूर्वोक्तैरवसर्पणशीला हानिस्वाभाविका अवसर्पिणीसमा। तद्विपरीतोसपिणी ।५। तद्विपरीतैरेवोत्सर्पणशीला वृद्धिस्वाभाविकोत्सर्पिणीत्युच्यते। ३० तत्रावसर्पिणी षड्विधा-सुषमसुषमा सुषमा सुषमदुःषमा दुःषमसुषमा दुःषमा अतिदुःषमा चेति । उत्सर्पिण्यपि अतिदुःषमाद्या सुषमसुषमान्ता षड्विधैव भवति। अवसर्पिण्या: परिमाणं दश सागरोपमकोटीकोटयः, उत्सपिण्यपि तावत्येव । सोभयी कल्प इत्याख्यायते। १ गिरिस्थितेषु प्रा०, 4०, २०, ८०, म०, ता० । २ कालकृतावित्यर्थः। ३ -संशोच्यते प्रा०, ब०, २०, म०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001811
Book TitleTattvarthvarttikam Part 1
Original Sutra AuthorBhattalankardev
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages454
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy