________________
१९२ तत्त्वार्यवार्तिके
[३२२८-३१ तत्र सुषमसुषमा चतस्रः सागरोपमकोटीकोटयः । तदादौ मनुष्या उत्तरकुरुमनुष्यतुल्याः । ततः क्रणेण हानौ । सत्यां सुषमा भवति तिस्रः सागरोपमकोटीकोटयः। तदादौ मनुष्या हरिवर्षमनुष्यसमाः । ततः क्रमेण हानौ' सुषमदुःषमा भवति द्वे सागरोपमकोटीकोटयौ
तदादौ मनुष्या हैमवतमनुष्यसमाना भवन्ति । ततः क्रमेण हानौ सत्यां दुःषमसुषमा भवति ५ एकसागरोपमकोटीकोटी द्विचत्वारिंशद्वर्षसहस्रोना । तदादौ मनुष्या विदेहजनतुल्या भवन्ति ।
ततः क्रमेण हानौ सत्यां दुःषमा भवति एकविंशतिवर्षसहस्राणि । ततः क्रमेण हानौ सत्यां अतिदुःषमा भवति एकविंशतिवर्षसहस्राणि । एवमुत्सपिण्यपि विपरीतकमा वेदितव्या। अथेतरासु भूमिषु काऽवस्थितिः ? अत आह
ताभ्यामपरा भूमयोऽवस्थिताः ॥२८॥ ताभ्यां भरतैरावताभ्यामपरा भूमय अवस्थिता भवन्ति। न हि तत्रोत्सपिण्यवसपिण्यौ स्तः । कि तासु मिभूषु मनुष्यास्तुल्यायुष आहोस्वित् कश्चिदस्ति प्रतिविशेष इति ? अस्तीत्याहएकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥२६॥
हैमवतादिभ्यो भवार्थे वुञ मनुष्यप्रतिपत्त्यर्थः ।। हैमवते भवा इत्येवमादिना विग्रहण १५ वुञि कृते हैमवतकादिसिद्धिर्भवति । स किमर्थः ? मनुष्यप्रतिपत्त्यर्थः । तत्र भवा मनुष्याः प्रतिपद्यरन्निति ।
एकादीनां हैमवतकादिभिर्यथासंख्यं संबन्धः ।२। हैमवतकादयस्त्रय एकादयस्त्रयः तत्र यथासंख्यं संबन्धो भवति । एकपल्योपमस्थितयो हैमवतकाः । द्विपल्योपमस्थितयो हारिवर्षकाः। त्रिपल्योपमस्थितयो दैवकुरवका इति । तत्र पञ्चसु हैमवतेषु सुषमदुःषमा सदा अवस्थिता । तत्र मनुष्या एकपल्योपमायुषो द्विधनुःसहस्रोच्छ्रिताश्चतुर्थभक्ताहारा नीलोत्पलवर्णाः । पञ्चसु हरिवर्षेषु सुषमा सदा अवस्थिता, तत्र मनुष्या द्विपल्योपमस्थितयः चतुश्चापसहस्रोत्सेवाः षष्ठभक्ताहाराः शङखवर्णाः । पञ्चसु देवकुरुषु सुषमसुषमा सदा अवस्थिता, तत्र मनुष्यास्विपल्योपमायुषः षड्धनुःसहस्रोत्सेघा अष्टमभक्ताहारा कनकवर्णाः । अथोत्तरेषु काऽवस्थेति ? अत आह
तथोत्तराः ॥३०॥ यथा दक्षिणाः तथोत्तरा वेदितव्याः । हैरण्यवतका हैमवतकैस्तुल्याः। राम्यका हारिवर्षकैस्तुल्याः । देवकुरवरौत्तरकुरवका व्याख्याताः । अथ विदेहष्दवस्थितेषु का स्थितिक्रिया ? "अत उच्यते
विदेहेषु संख्येयकालाः ॥३२॥ सर्वेषु विदेहेषु संख्येयकालाः मनुष्याः । तत्र काल: सुषमदुःषमान्तोपमः सदा अवस्थितः । मनुष्याश्च पञ्चधनुःशतोत्सेधा नित्याहाराः उत्कर्षेण" एक पूर्वकोटिस्थितिका जघन्येनान्तमुहूर्तायुषः ।
१-जो प्रत्यां सु-मु०। २ कुतः। ३ -स्थितिरित्यत प्रा०, ब०, द०, मु०। ४ तदुच्य-श्र० । ५-ण पूर्व- प्रा०, २०, २०, मु०। ६ पुध्वस्स तु परिमाणं सर्वार खलु कोडिसवसहस्साई। इप्पणं च सहस्सा बोषव्वा वासकोडीणं ॥ इति-७०५६००००००००००।
३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org