________________
३३३२J तृतीयोऽध्यायः
१६३ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥३२॥ किमर्थमिदमुच्यते ननु पुरस्ताद्भरतस्य विष्कम्भो व्याख्यातः ?
पुनर्भरतविष्कम्भवचनं प्रकारान्तरप्रतिपत्त्यर्थम् ।। पुनर्भरतविष्कम्भ उच्यते प्रकारान्तरेण प्रतिपत्तिः कथं स्यादिति । भरतविष्कम्भप्रमाणैः खण्डै: छिद्यमानो जम्बूद्वीपः नवत्युतरेण खण्डशतेन परिच्छिद्यत इत्यर्थः । ___ उत्तराभिसम्बन्धार्थ वा।। अथवा, उत्तरत्र वक्ष्यते-*"द्विर्धात'को खण्ड। पुष्करार्धे च" त० सू० ३।३३-३४] इति, तदभिसंबन्धार्थ पुनर्वचनं क्रियते ।
तलमूलयोर्दशयोजनसहस्रविस्तारो लवणोदः ।३। समे भूमितले द्वियोजनशतसहस्रविप्कम्भ इत्युक्त पुरस्तात् । तस्य गोतीर्थवदुभयतोऽधः क्रमेण हान्या मूले दशयोजनसहस्रविस्तारः तावद्विष्कम्भजलतल: योजनसहस्रावगाहः समाद् भूमितलादूर्व षोडशयोजनसह- १० स्रजलोत्सवः यवराशिरिवोच्छितजल: मृदङ्गसंस्थानो लवणोदो वेदितव्यः ।
तन्मध्ये दिक्षु महापातालानि योजनशतसहस्रावगाहानि ।४। तस्य लवणोदस्य मध्ये चतसृष दिक्षु रत्नवेदिकायाः पञ्चनवतियोजनसहस्राणि तिर्यगतीत्य क्षितिविवराणि वज़मयतलपार्वानि, 'अलिजरसंस्थानानि प्रत्येकमेकयोजनशतसहस्रावगाहानि तावन्मध्यविष्कम्भाणि तलमलयोर्दशयोजनसहस्रविस्ताराणि महापातालानि वेदितव्यानि चत्वारि-पाताल- १५ बडवामुख-यूपकेसर-कलम्बुकसंज्ञानि । तत्र प्राच्यां दिशि पातालम्, प्रतीच्यां बडवामुखम्, उदीच्यां यूपकेसरम्, अपाच्या कलम्बुकम् । तेषामेकैकस्त्रिभागस्त्रयस्त्रिशत्सहस्राणि योजनानां त्रीणि शतानि त्रयस्त्रिशानि योजनविभागश्च साधिकः । तेषामधस्त्रिभागे वातस्तिष्ठति । मध्यत्रिभागे वायुतोये । उपरित्रिभागे तोयम् । रत्नप्रभाखरपृथ्वीभागसन्निवेशिभवनालयवातकुमारतद्वनिताक्रीडाजनिताऽनिलसंक्षोभकृतपातालोन्मीलननिमीलनहेतुको वायुतोयनिष्क्रम- २० प्रवेशौ भवतः। तत्कृता दशयोजनसहस्रविस्तारमुखजलस्योपरि पञ्चाशद्योजनावधृता जलवृद्धिः । तत उभयत आरत्नवेदिकायाः सर्वत्र द्विगव्यूतप्रमाणा जलवृद्धिः । पातालोन्मीलनवेगोपशमेन हानिः । पातालानां चतुर्णामप्यन्तराणि प्रत्येक द्वे शतसहस्रे सप्तविंशतिसहस्राणि सप्ततिशतं च योजनानां त्रीणि च गव्यूतानि साधिकानि ।
विदिक्षु क्षुद्रपातानि दशयोजनसहलावगाहानि ।५। तन्मध्ये चतसृषु विदिक्षु चत्वारि २५ क्षुद्रपातालानि दशयोजनसहस्रावगाहानि तावन्मध्यविष्कम्भाणि मुखमूलयोर्योजनसहस्रविस्ताराणि वेदितव्यानि । तेषामेकैकस्त्रिभागस्त्रीणि सहस्राणि त्रीणि शतानि त्रर शानि योजनानां योजनविभागश्च साधिकः । अधस्त्रिभागे वातः, मध्यत्रिभागे वायुतोये, उपरि त्रिभागे तोयम् ।
तदन्तरेषु क्षुद्रपातालानां योजनसहस्रावगाहानां सहस्रम् ।६। तेषां दिग्विदिग्बिभागानां ३० पातालानाम् अन्तरेष्वष्टास्वपि योजनसहस्रावगाहानां तावन्मध्यविष्कम्भाणां मुखमूलयोस्तदर्धविस्ताराणां क्षुद्रपातालानां सहस्रं प्रत्येत्तव्यम् । तेषां त्रिभागाः पूर्ववद्वेदितव्याः। तत्रैकैकस्मिन्नन्तरे क्षुद्रपातालानां मुक्तावलीवदवस्थितानां शतं पञ्चविंशमन्यान्यपि पातालानि सन्ति । अन्तरालेषु सप्तसहस्राण्यष्टौ शतान्यशीतिश्च पातालसमुदायः ।
१-कोषण्डे ता०, १०, म० । २-दः - ८०, १०, ता०। वः - मू०। ३ उपरितलः। ४ अंजनसं-प्रा०, ब०, द०, म० । 'मणिकोऽलिजरः' इति हैमः, मणिसंस्थानानि इति यावत्- सम्पा० । ५ तेषामेकस्त्रि- ता०, २०, मू०।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org