________________
तत्वार्थवार्तिके
दिक्षु वेलन्धरनागाधिपतिनगराणि चत्वारि |७| रत्नवेदिकायास्तिर्यग्द्वाचत्वारिंशद्योजनसहस्राणि गत्वा चतसृषु दिक्षु द्वाचत्वारिंशद्योजन सहस्रायामविष्कम्भाणि चत्वारि वेलन्धनागाधिपतिनगराणि भवन्ति । तेषु वेलन्धरनागाधिपतयः पल्योपमायुषो दशकार्मुकोत्सेधाः प्रत्येकं चतसृभिरग्रमहिषीभिः परिवृता वेलन्धरनागाश्च निवसन्ति । तत्र द्वाचत्वारिंशन्नाग५ सहस्राणि लवणोदाभ्यन्तरवेलां धारयन्ति । द्वासप्ततिर्नागसहस्राणि 'बाह्यवेलां धारयन्ति । अष्टाविंशतिर्नागसहस्राणि अग्रोदकं धारयन्ति । तान्येतानि समुदितान्येकं शतसहस्रं द्वाचत्वारिंशच्च सहस्राणि ।
द्वादशयोजनसहाय मविष्कम्भो गौतमद्वीपस्थ |८| रत्नवेदिकायास्तिर्यग्द्वादशयोजनसहस्राणि गत्वा द्वादशयोजन सहस्रायामविष्कम्भो गौतमस्य समुद्राधिपतेद्वपश्च तत्र भवति ।
रत्नवेदिकायास्तिर्यक्पञ्चनवतिप्रदेशेषु गतेषु एकः प्रदेशावगाहः, पञ्चनवतिहस्तेषु गतेष्वेकहस्तावगाहः, पञ्चनवतियोजनेषु गतेष्वेकयोजनावगाहः, पञ्चनवतियोजनशतेषु गते - sdeयोजनशतावगाहः, पञ्चनवतियोजनसहस्रेषु गतेष्वेकयोजन सहस्रावगाहः । लवणोदस्यान्ते यथा वेला तथा बहिरपि, विजयादीनि द्वाराणि चात्र । लवणोदस्यैव वेला नान्योदधीनां तत्रैव च पातालानि नान्यत्र । सर्वे च लवणोदादयः स्वयम्भूरमणपर्यन्ता एकयोजनसहसा - १५ वगाहाः । द्वीपोदधिपर्यन्ते चोभे वेदिके । या द्वीपान्ते ता द्वीपानां याः समुद्रान्ते ताः समुद्राणाम् । लवणोद उच्छ्रितसलिल:, शेषाः 'प्रस्तारजलाः । भिन्नरसाश्चत्वारः, त्रय उदकरसाः, शेषा इक्षुरसाः सागराः । लवणोदो लवणरसजल: । ' वारुण्युदो वारुणीरसजलः । क्षीरोदः क्षीररसजलः । घृतोदो घृतरसजलः । कालोदपुष्करोदस्वयम्भूरमणोदा उदकरसाः । लवणोदकोदस्वयम्भूरमणोदा मत्स्यकूर्मादिजलचरावासाः नेतरे । लवणोदे नदीमुखे नवयोजन२० शरीरा मत्स्याः, सागराभ्यन्तरेऽष्टादशयोजनशरीराः । कालोदे नदीमुखेऽष्टादशयोजनशरीरा मत्स्याः, सागराभ्यन्तरे षट्त्रिंशद्योजनशरीराः । स्वयम्भूरमणोदे नदीमुखे पञ्चशतयोजनशरीरा मत्स्याः, सागराभ्यन्तरे एकयोजनसहस्रशरीरा मत्स्याः ।
योऽयं वर्षवर्षधरहृदपुष्करादीनां संख्याविष्कम्भादिविधिरुक्तो जम्बूद्वीपे तद्विगुणो धातकीपण्ड इति प्रतिपादयितुमिच्छन्नाह
१९४
२५
द्विर्धातकीषण्डे ' ॥३३॥
व्याभ्यावृत्तौ सुजभाव इति चेत्; न; क्रियाध्याहाराद् द्विस्तावानिति यथा | १| स्यान्मतम् - भरतादीनि द्रव्याणि अत्राभ्यावर्तन्ते न तु क्रिया 'तस्मान्नास्ति सुजिति ? तन्न; किं कारणम् ? क्रियाध्याहारात् । यथा 'द्विस्तावानयं प्रासाद इति 'मीयते' इत्येवमाद्यध्याहियापेक्षा सुजुत्पत्तिः, एवमिहापि धातकीपण्डे भरतादयो 'द्विः संख्यायन्ते' इत्येवं सामर्थ्य प्रापित क्रियापेक्षया सुज्वेदितव्यः । तच्च संख्यानं द्विधा स्वरूपभेदेन विष्कम्भादिभेदेन च । तत्र स्वरूपसंख्यानं द्वौ भरतौ द्वौ हिमवन्तावित्येवमादि । विष्कम्भादिसंख्यानं जम्बूद्वीपे हिमवदादीनां वर्षधराणां यो विष्कम्भः तद्विगुणो धातकीषण्डे हिमवदादीनामिति ।
३०
[ ३३३
१. बाह्यां वेलां आ०, ब०, ब०, मु०, ता०, । २ एकप्रदेशा- प्रा०, ब० मु० । ३ वेला कालविशेषः स्यात वेला सिन्धुजलोच्छ्रुितिः । ४ प्रसार जलाः प्रा०, ब०, ६०, मु० । ५ वारुणोदः ता० अ०, मु० । ६ - खण्डे श्रा०, ब०, द०, मु० । ७ पौनःपुन्यम्- ता० टि० । ८ ततो न सु- ता०, प्रा०, ब०, ६०, म० । ६ द्वौ वारौ तावान् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org