________________
३।३३ ]
तृतीयोऽध्यायः
अथ धातकीषण्डे भरतस्य को विष्कम्भः ? उच्यते
षट्षष्टिशतानि चतुवंशानि योजनानां धातकीषण्डभरताभ्यन्तरविष्कम्भः एकान्नत्रिशच्च भागशतम् । २। षट्सहस्राणि षट्शतानि चतुर्दशोत्तराणि योजनानां योजनस्य द्वादशद्विशतभागाः एकान्नत्रिंशच्च भागशतं धातकीषण्डभरताभ्यन्तरविष्कम्भः ।
१९५
संकाशीतिपञ्चशताधिकद्वादशसहस्राणि मध्यविष्कम्भः षट्त्रिंशच्च भागाः ॥ ३॥ द्वादश- ५ सहस्राणि योजनानां पञ्चशतान्येकाशीत्युत्तराणि षट्त्रिंशच्च भागा धातकीषण्डभरतमध्यविष्कम्भः ।
सप्तचत्वारिशत्पञ्चशताष्टादशसहस्राणि बाहयविष्कम्भः पञ्चपञ्चाशञ्च भागशतम् |४| अष्टादशसहस्राणि योजनानां पञ्चशतानि सप्तचत्वारिंशानि पञ्चपञ्चाशञ्च भागशतं बाह्य भरतविष्कम्भः ।
१०
वर्षाद्वर्षश्चतुर्गुणविस्तार आ विदेहात् ॥५। वर्षाद्वर्षश्चतुर्गुणविस्तार आ विदेहाद् द्रष्टव्यः । भरताच्चतुर्गु णविष्कम्भो हैमवतः । हैमवताच्चतुर्गुणविष्कम्भो हरिवर्षः । हरिवर्षाच्चतुffort fast । तथा च भरततुल्यविस्तार ऐरावतः । ऐरावताच्चतुर्गुणविस्तारो हैरण्यवतः । हैरण्यवताच्चतुर्गुणविस्तारो रम्यकः । धातकीषण्डवलयविष्कम्भश्चत्वारि योजनशतसहस्राणि । तत्परिधिरेकचत्वारिंशद्योजनशतसहस्राणि दशसहस्राणि नव योजनशतानि १५ विशेषो षष्टयुत्तराणि एकं शतसहस्रं अष्टसप्ततिसहस्राणि अष्टौ शतानि च द्वाचत्वारिंशानि योजनानि धातकीषण्डे वर्षधररुद्धक्षेत्रम् । तत्परिधिमपनीयावशिष्टं द्वादशद्विशतभागहृतं लब्धम्, भरतविष्कम्भ उक्तः ।
वर्षाणां वर्षधराणां सरितां वृत्तवेदाढघानां हृदानामन्येषां च 'तान्येव नामानि । वर्षधरा हिमवदादयः उक्तोत्सेधावगाहा द्विगुणविस्ताराः । चत्वारोऽपि वृत्तवेदाढया उक्तोच्छ्रा- २० यावगाहसमा द्वियोजनसह सविस्ताराः । यमकाद्री च व्याख्यातोत्सेधावगाही द्वियोजन सहसू - मूलविस्तारौ पञ्चदशयोजनशतमध्यविष्कम्भी उपर्युकयोजनसहसूविस्तारो । काञ्चनादयश्च व्याख्यातोच्छ्रायावगाहा द्विगुणविस्ताराः । हृदाश्च पद्मादयः षडपि द्विगुणायामविष्कम्भावगाहाः । द्वीपाः पद्मानि च द्विगुणायामविष्कम्भावगाहानि ।
भरतैरावतविभाजिनाविष्वाकारगिरी |६| उदगपाक् भरतैरावतयोर्विभागहेतु कालो - २५ roaणोदस्पर्शित योजनशतावगाहौ चतुर्योजनशतोत्सेधी अध उपरि चैकयोजन सहसू विस्तारी काञ्चनपरिणामी इष्वाकारगिरी भवतः ।
तत्र घातकीपण्डे द्वौ मेरू पूर्वापरो योजनसहस्रावगाही पञ्चनवतियोजनशतमूलविष्कम्भो धरणीतले चतुर्नवतियोजनशतविस्तारौ चतुरशीतियोजनसहस्रोत्सेधौ योजन सहसूविस्तार पूर्वोक्तप्रमाण' चूलिको । समाद् भूमितलात् पञ्चयोजनशतान्युत्प्लुत्य नन्दनवनं ३० भवति पञ्चयोजनशतविस्तारम् । पञ्चपञ्चाशद्योजनशताधिकपञ्चाशद्योजनसहस्राणि
१ किचतुःशतोपेतानि षड्वंशतियोजनसहखाणि द्वादशाधिकशतद्वयीयं द्वानवतिभागा योजनस्य हेमवतोऽभ्यन्तर विष्कम्भः । चतुर्विंशत्यधिकशतत्रयोपेतानि पञ्चाशद्योजन सहस्राणि द्वादशापिकशतद्वयीयं चतुश्चत्वारिशदधिकं भागशर्त योजनस्य मध्यविष्कम्भः । नवत्यधिकशतोपेतानि चतुःसप्ततियोजनसहस्राणि द्वादशाधिकशतद्वयीयं षण्णवत्यधिकं भागशतं च हैमवतो बाह्यविष्कम्भः । २ - वाबगाहाबीनि प्रा०, ब०, ६०, म० । ३ - भूतलिको प्रा०, ब०, ब० मु० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org