________________
१९६ तत्त्वार्थवार्तिके
[३॥३४ तत उत्प्लुत्य सौमनसं नाम वनं पञ्चशतयोजनविष्कम्भं भवति। ततोऽष्टाविंशतियोजनसहस्राण्युत्प्लुत्य' पाण्डुकवनं भवति । तयोर्दशसु प्रदेशेष्वेकप्रदेशवृद्धिः ।।
जम्बूद्वीपे यत्र जम्बूवृक्षः तत्र धातकीषण्डे धातकीवृक्षः। परिवाराश्च पूर्वोक्तवर्णनाः । तन्निवासी द्वीपाधिपतिस्तत एव द्वीपस्य धातकीषण्ड इति नाम वेदितव्यम् । तत्र चकारान्तर५ संस्थाना वर्षा वर्षधराश्च चक्राराकारा उभयजलधिस्पर्शिनः । तत्परिक्षेपिकालोदसमुद्रः टङ्कच्छिन्नतीर्थः अष्टयोजनशतसहसवलयविष्कम्भ एकनवतिशतसहसाणि सप्ततिश्च सहसाणि साधिकपञ्चोत्तराणि षट्शतानि योजनानां तत्परिधिः ।
कालोदपरिक्षेपिपुष्करदीपः षोडशयोजनशतसहसवलयविष्कम्भः । तत्र द्वीपाम्भोनिधिद्विगुणपरिक्लृप्तिवत् धातकीषण्डवर्षादिद्विगुणविधिप्रसङ्गे विशेषावधारणार्थमाह--
पुष्करार्धे च ॥३४॥ चशब्द: किमर्थः ?
संख्याभ्यावृत्त्यनुवर्तनाथश्चशब्दः ॥१॥ द्विरित्येतस्याः संख्याभ्यावृत्तेरनुवर्तनार्थश्चशब्द: क्रियते, पुष्करार्धे च द्विर्भरतादयः संख्यायन्त इति । किं जम्बूद्वीपभरतादिसंख्या द्विरावर्त्यत
इत्यभिसंबध्यते आहोस्वित् धातकीषण्डभरतादिसंख्येति ? 'जम्बूद्वीपभरतादिसंख्यैव संब१५ ध्यते । अनन्तरा कस्मान्नाभिसंबध्यत 'इति ? इच्छातो विशेष सम्बन्ध इति । अतश्चैतदेवं
धातकीषण्डे हिमवदादीनामपि विष्कम्भः, पुष्करार्धे च हिमवदादीनां द्विगुण इष्यत इति । नामानि च तान्येव वेदितव्यानि । अथ भरतस्य को विष्कम्भः ?
एकान्नाशीत्युत्तरपञ्चशताधिकैकचत्वारिंशद्योजनसहसाणि भरताभ्यन्तरविष्कम्भः सत्रिसप्ततिभागशतं च १२॥ एकचत्वारिंशत्सहस्राणि पञ्चशतान्येकान्नाशीत्युत्तराणि योजनानां त्रिसप्तत्युत्तरभागशतं च भरताभ्यन्तरविष्कम्भो वेदितव्यः ।
द्वादशपञ्चशतोत्तरत्रिपञ्चाशद्योजनसहसाणि मध्यविष्कम्भो नवनवत्यधिकं च भागशतम् ।। त्रिपञ्चाशत्सहस्राणि योजनानां पञ्चशतानि द्वादशानि नवनवत्यधिक च भागशतं मध्यभरतविष्कम्भः ।
__ द्वाचत्वारिंशच्चतुःशतोत्तरपञ्चषष्टिसहस्राणि बाहयविष्कम्भस्त्रयोदश च भागाः।४। पञ्चषष्टिसहस्राणि योजनानां चत्वारि शतानि द्वाचत्वारिंशानि त्रयोदशभागाः बाह्यभरतविष्कम्भः। '
वर्षाद्वर्षश्चतुर्मुणविस्तार आ विदेहात् ५। वर्षात् वर्षः चतुर्गुणविस्तार आविदेहात् द्रष्टव्यः। भरताच्चतुर्गुणविष्कम्भो हैमवतः, हैमवताच्चतुर्गुणविष्कम्भो हरिवर्षः, हरिवर्षाच्चतुर्गुण
विष्कम्भो विदेह इति । तथा भरततुल्यविस्तार ऐरावतः, ऐरावताच्चतुर्गुणविस्तारो हैरण्यवतः, ३० हैरण्यवताच्चतुर्गुणविस्तारो रम्यक इति । एककोटिद्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि
द्वे च शते योजनानां सविशे षा चैकानपञ्चाशत् पुष्करान्तिःपरिधिः । त्रीणि शतसहस्राणि
१-त्पत्य श्र०, म०।२-विधिप्रमाणवि- श्रा०, ब०, २०, म०। ३ -विकसं-पा०, ब०,२०, मु०। ४ चेत् । ५ यया धातकीषण्डे जम्बूद्वीपभरतादयो द्विगुणसंख्या व्याख्याताः तथा पुष्कराचे च जम्बद्वीपस्यैव भरतादयो द्विगुणसंख्या व्याख्यायन्त न धातकोषण्डस्येत्यर्थः। ६ द्वे शते प्रा०,40, द०, म०, ता०। ७-षं चै-पा०, ब०, २०, मु०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org