________________
३१३५]]
तृतीयोऽध्यायः पञ्चपञ्चाशत्सहस्राणि षट्शतानि चतुरशीतिश्च योजनानि पुष्कराधै ,पर्वतरुद्धक्षेत्रम्, परिधेरपनीयाऽवशिष्टं द्वादशद्विशतभागहृतलब्धं भरतविष्कम्भ उक्तः । वर्षधरविजयार्धवृत्तवेदाढयादयः जम्बूद्वीपवर्णनायां विहितोत्सेधावगाहाः धातकीषण्डविहितद्विगुणविस्ताराः पुष्कराधं च वेदितव्याः । इष्वाकारौ मन्दरौ च तावत्परिमाणावेव। यत्र जम्बूवृक्षस्तत्र पुष्करं सपरिवारं वेदितव्यम् । तनिवासी द्वीपाधिपतिः, तत एव तस्य दीपस्य नाम रूढं ५ पुष्करद्वीप इति ।
अथ कथं पुष्कराधसंज्ञा ? ___मानुषोत्तरशैलेन विभक्तार्थत्वात् पुष्कराधसंज्ञा ।। पुष्करद्वीपस्य बहुमध्यदेशभावी वलयवृत्तो मानुषोत्तर'नामशैलः, तेन विभक्तार्धत्वात् पुष्कराधसंज्ञा वेदितव्या। सप्तदशयोजनशतान्येकविंशान्यस्योच्छायः । चत्वारि योजनशतानि त्रिशानि सक्रोशान्यवगाहः, द्वाविंशं योजनसहस्रं मूलविस्तारः। सप्तयोजनशतानि त्रयोविंशानि मध्यविस्तारः। चतुर्विशानि चत्वारि योजनशता- १० न्युपरि विस्तारः। सोऽयमभ्यन्तरमुखनिषण्णसिंहाकृतिरर्धयवराश्युपमान: मानुषोत्तराद्रिः । . तस्योपरि चतसष दिक्ष पञ्चाशद्योजनायामतदर्धविस्तारसायोजनसप्तत्रिंशद्योजनोत्सेधानि अष्टयोजनोत्सेधतदर्धविष्कम्भतावत्प्रवेशद्वाराणि अर्हदायतनवर्णनोपेतानि चत्वार्यहदायतनानि प्रागादिषु दिक्षु प्रदक्षिणा वृतानि । वैडूर्य-अश्मगर्भ-सौगन्धिक-रुचक-लोहिताक्ष-अञ्जनक'-अञ्जनमूल-कनक-रजत-स्फटिक-अङ्क-प्रवाल-वज-तपनीयकूटसंज्ञानि चतुर्दशकूटानि १५ पञ्चयोजनशतोच्छायाणि पञ्चयोजनशतमूलविष्कम्भाणि पञ्चसप्तत्युत्तरत्रियोजनशतमध्यविष्कम्भाणि अर्धतृतीययोजनशतोपरिविष्कम्भाणि । तत्र चतसृषु दिक्षु त्रीणि त्रीणि कूटानि पूर्वोत्तरस्यां दिश्येकं कूटं पूर्वदक्षिणस्यां दिश्येकम् । तेषु यशस्वदादयः पल्योपमस्थितयः सुपर्णकुमाराणां राजानो निवसन्ति । प्राच्यां दिशि वैड ये यशस्वान्, अश्मगर्भे यशष्कान्त., सौगन्धिके यशोधरः । अपाच्यां रुचके नन्दनः, लोहिताक्षे नन्दोत्तरः, अञ्जनकेऽशनिघोषः। प्रतीच्यामञ्ज- २० नमूले सिद्धार्थः, कनके क्रमणः, रजते मानुषः । उदीच्यां स्फटिके सुदर्शनः, अङकेऽमोघः, प्रवाले सुप्रबुद्धः । पूर्वोत्तरस्यां वजे हनुमान् । पूर्वदक्षिणस्यां तपनीये स्वातिः । चतसृषु विदिक्षु पुनरिमानि चत्वारि कूटानि रत्न-सर्वरत्न-वैलम्ब-प्रभजननामानि पूर्वकूटपरिमाणानि । निषवाद्रिस्पृष्टभागे पूर्वदक्षिणस्यां रत्ने पन्नगेन्द्रो वेणुदेवः । नीलाद्रिस्पृष्टभागे पूर्वोत्तरस्यां सर्वरत्ते सुपर्णेन्द्रो वेणुतालिः । निषधाद्रिस्पृष्टभागेपरदक्षिणस्यां वैलम्बकूटे वातेन्द्रो वैलम्बः । २५ नीलाद्रिस्पृष्टभागेऽपरोत्तरस्यां प्रभञ्जनकूटे वातेन्द्रः प्रभजनो निवसति । ___अत्राह-किमर्थ जम्बूद्वीपधराधरादिसंख्या द्विरावृत्ता पुष्करार्धे कथ्यते, न पुनः कृत्स्न एव पुष्करद्वीपे इति ? अत्रोच्यते
प्राङ्मानुषोत्तरान्मनुष्याः ॥३५॥ यस्मात् प्राङमानुषोत्तरान्मनुष्या न बहिः, ततो न बहिः पूर्वोक्तक्षेत्रविभागोऽस्ति । ३० अथवा, उक्तमिन्द्रियविकल्पाधिकारे कृमिपिपीलिकाभमरमनुष्यादीनामेकैकवद्धानि" [त० सू० २। २३ ] इति ; तत्र न ज्ञायते क्व मनुष्या इति ? अतस्तदधिकरणविशेष
१-बक्षेत्रमपनी-पा०, ब०, २०, मु०।२-हाः विहि-प्रा०, २०, २०, मु०। ३ एवास्य दीप्रा०, 40, 40, म०। ४ -रको नाम-मू, श्र०।५-णावृतानि मू०, श्र०। ६-नकाञ्चनमूलता०, म०, मू।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org