________________
तत्त्वार्थवार्तिके
[३३५ प्रतिपत्त्यर्थमुच्यते-जम्बूद्वीपादारभ्य प्राङ मानुषोत्तरात् मनुष्या न बहिरिति । व्याख्यातो मानुषोत्तराद्रिः । नास्मादुत्तरं कदाचिदपि विद्याधराः ऋद्धिप्राप्ता अपि मानुषा गच्छन्ति अन्यत्रोपपादसमुद्घाताभ्याम्, ततोऽस्याऽन्वर्थसंज्ञा।
__ एवं द्विगुणद्विगुणवलयविष्कम्भेषु द्वीपसमुद्रेषु गतेष्वष्टमो नन्दीश्वरो द्वीपः । तस्य वलय५ विष्कम्भः कोटिशतं त्रिषष्टिकोटयः चतुरशीतिश्च योजनशतसहसाणि । तत्परिधिः द्वे कोटि
सहस्र द्विसप्ततिकोटयः त्रयस्त्रिशच्छतसहस्राणि चतुःपञ्चाशत्सहसाण्येकशतं नवतियोजनानि गव्यूतं च साधिकम् । तद्बहुमध्यदेशभाविनश्चतसृषु दिक्षु चत्वारोऽजनगिरयः योजनसहस्रावगाहाश्चतुरशीतियोजनसहस्रोत्सेधाः मूलमध्याग्रेषूत्सेधसमायामविष्कम्भाः पटहा
काराः । तेषां चतसृषु दिक्षु तिर्यगेकं योजनशतसहसमतीत्य प्रत्येकं चतस्रो १० वाप्यो भवन्ति । तत्र पौरस्त्याञ्जनगिरेः नन्दा-नन्दवती-नन्दोत्तरा नन्दिघोषासंज्ञा योजन
सहसावगाहा' योजनशतसहसायामविष्कम्भाश्चतुष्कोणा मत्स्यकच्छपादिजलचरविरहिताः पद्मोत्पलादिजलरुहकुसुमसञ्छादितस्फटिकमणिस्वच्छगम्भीरनीराः । प्राच्यां दिशि नन्दा शक्रस्य, अपाच्यां नन्दावती ऐशानस्य, प्रतीच्यां नन्दोत्तरा चमरस्य, उदीच्यां नन्दिघोषा
वैरोचनस्य । दाक्षिणात्याञ्जनगिरेविजया वैजयन्ती जयन्ती अपराजिता चेति चतस्रो १५ वाप्यः पूर्वोक्तप्रमाणवर्णनाः शक्रलोकपालानाम् । प्राच्यां दिशि विजया वरुणस्य, अपाच्यां
वैजयन्ती यमस्य, प्रतीच्यां जयन्ती सोमस्य, उदीच्यामपराजिता वैश्रवणस्य । पाश्चात्याञ्जनगिरेरशोका सुप्रबुद्धा कुमुदा पुण्डरीकिणी चेति चतस्रो वाप्यः पूर्वोक्तप्रमाणवर्णनाः । पूर्वस्यां दिशि अशोका वेणुदेवस्य, दक्षिणस्यां सुप्रबुद्धा वेणुता'ले:, अपरस्यां कुमुदा
वरुणस्य, उत्तरस्यां पुण्डरीकिणी भूतानन्दस्य । उदीच्याञ्जनगिरेः प्रभङ्करा सुमना २० आनन्दा सुदर्शना चेति चतस्रो वाप्यः पूर्वोक्तप्रमावर्णना ऐशानलोकपालानाम् । प्राच्या
दिशि प्रभङ्करा वरुणस्य, अपाच्यां सुमना यमस्य, प्रतीच्याम्' आनन्दा सोमस्य, उदीच्या सुदर्शना वैश्रवणस्य । षोडशानामप्यासामभ्यन्तरान्तराणि पञ्चषष्टिसहसाणि योजनानां पञ्चशतानि पञ्चचत्वारिंशानि। मध्यान्तराणि एकं शतसहस योजनानां चत्वारिंशत्सहस्राणि
षट् च शतानि द्वियोजनोत्तराणि । बाह्यान्तराणि द्वे शतसहस्र योजनानां त्रयोविंशतिसहस्राणि २५ षट् च शतान्येकषष्टयुत्तराणि। षोडशानामपि तासां मध्येषु सहसावगाहा मूलमध्याग्रेषु
दशयोजनसहसायामविष्कम्भाः तावदुत्सेधाः पटहाकाराः जाम्बूनदमयाः, अर्जुनसुवर्णशिखरत्वाद् दधिमुखा इति कृत्वा अन्वर्थसंज्ञाः षोडश नगवराः । परितस्ता वापी: चत्वारि वनानि प्रत्येकमशोक-सप्तपर्ण-चम्पक-चूतनामानि वापीसमायामानि तदर्धविष्कम्भाणि ।
पूर्वेणाऽशोकवनं दक्षिणतः सप्तपर्णवनमाहुः ।
____ अपरेण चम्पकवनमुत्तरतश्चूतवृक्षवनम् ॥१॥ एतद्वापीकोणसमीपस्थाः प्रत्येकं चत्वारो नगा रतिकराख्या अर्धतृतीययोजनशतावगाहा एकयोजनसहस्रोत्सेधा मूलमध्याग्रेषु तावदायामविष्कम्भाः पटहाकाराः काञ्चनमणिपरिणामाः । सर्वे ते समुदिताश्चतुःषष्टिः । तत्र ये अभ्यन्तरकोणस्था द्वात्रिंशन्नगा देवानामाक्रीडनस्थानरलकृताः। ये बाह्यकोणस्थाः द्वात्रिंशद्रतिकरा अञ्जनाद्रयो दधिमुखाश्च
१-हाः चतुरशीतियोजनसहनावगाहाः भा०२।२-सुप्रसिद्धा मा०, दि०।३-तालस्य प्रा०,ब०, २०, म०।४-च्यां नन्दा श्र०।५ षट्शतानि प्रा०, २०, २०, मु०।६ कृत्वान्वर्थ-पा०, ब०,०म०, ता०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org